________________
आगम
(०५)
“भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१
शतक [१], वर्ग H, अंतर्-शतक H, उद्देशक [९], मूलं [७८] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
१ शतके ९ उद्देशः
प्रत सूत्रांक [७८]
दीप अनुक्रम [९९]
दरिद्रस्य 'किविण'त्ति रकस्य कृपणस्य वा, 'अपञ्चक्खाण'त्ति अप्रत्याख्यानक्रिया क्रियते, अविरतिं प्रतीत्य सर्वेषां समैवसदृशीत्युत्तरं । 'आहाकम्मे त्यादि (सू. ७९) आधया साधुविकल्पेन यत् सचेतनमचेतनं क्रियते चीयते गृहादिकं व्यूयते वस्त्रादिकं । अथिरे पलोहइत्ति (स. ८०) अस्थिरं द्रव्यं लोष्ठादि प्रलोटति–परावर्तते, अध्यात्मचिन्तायां तु जीवप्रदेशेभ्योऽस्थिर | कर्म, तस्य प्रतिसमयं चलनेनास्थिरत्वात् , प्रलोटति-बन्धोदयनिर्जरणादिपरिणामैः परिवर्तते, 'धिरे ण पलोइ' स्थिरं शिलादि न प्रलोटति, अवस्थितत्वात् , तथा अस्थिरं-भङ्गुरस्वभावं तृणादि भज्यते, एवं कर्मक्षयेऽपि अस्थिरं कर्म तद्भज्यते-व्यपैति, तथा |स्थिरम्-अभङ्गुरं अयाशलाकादि न भज्यते, एवमध्यात्मचिन्तायां स्थिरो जीवः स च न भज्यते, शाश्वतत्वादिति, जीवप्रस्ता
वादिदमाह-'सासए बालए'त्ति बालको व्यवहारतः शिशुः, निश्चयतोऽसंयतो जीवः, स च शाश्वतो द्रव्यत्वात् 'बालियत्त'ति | इह इकप्रत्ययस्य स्वार्थिकत्वात् बालत्वं व्यवहारतः शिशुत्वं निश्चयतोऽसंयतत्वं तदशाश्वतं, पर्यायत्वादिति, एवं पण्डितसूत्रमपि,
नवर पण्डितो व्यवहारेण शाखशो जीवः, निश्चयतस्तु संयत इति ।। प्रथमशते नवमोदेशकविवरणम् १-९॥ | 'अन्नउत्थिया णं'ति (स.८१) 'चलमाणे अचलिए'त्ति चलत्कर्म अचलितं, तेन चलितकार्याकरणात , वर्तमानस्यातीततया व्यपदेष्टुमशक्यत्वात् , एवमग्रेऽपि वाच्यं, 'एगयओ न साहण्णंतित्ति एकतः एकत्वेन एकस्कन्धतया वा न संहन्यंति-न |संहतौ स्याताम् , 'नस्थि सिणेहकाए'त्ति नास्ति स्नेहपर्यवराशिः, सूक्ष्मत्वात् , व्यादियोगे तु स्थूलत्वात् सोऽस्ति, दुक्खत्ताए कजंति'त्ति पञ्च पुद्गलाः संहत्य दुःखतया-कर्मतया क्रियन्ते, भवन्ति इत्यर्थः, 'दुक्खेऽवि य णं'ति कापि च 'से'त्ति | तत् शाश्वतमनादित्वात् , 'सय'त्ति सदा 'समियंति सम्पक समितं वा चीयते-चयं याति, अपचीयते-अपचयं याति, 'पुर्दिव
॥३९॥
अत्र शतक-१, उद्देषक: ९ समाप्त:, अथ शतक-१ उद्देषक: १० आरब्ध:
~86