SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५० ] + गाथाः दीप अनुक्रम [६८] श्रीभग वती सूत्रम् “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-१ शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [५], मूलं [५० ] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः OLDEN G 'वण फइए 'त्ति वनस्पतयः पृथ्वीवद्वाच्याः, दशस्खयि स्थानकेषु भङ्गकाभावात् तेजोलेश्यायां च तथैवाशीतिभङ्गसद्भावादिति । ननु पृथिव्यव्वनस्पतीनां दृष्टिद्वारे साखादनभावेन सम्यक्त्वं कर्मग्रन्थेष्वभ्युपगम्यते, तत एव च ज्ञानद्वारे मतिज्ञानं श्रुतज्ञानं च, अल्पाश्चैत एव ततोऽशीतिर्भङ्गाः सम्यग्दर्शनामिनिबोधिक श्रुतज्ञानेषु भवन्तु नैवं पृथिव्यादिषु सास्वादन भावस्यात्यन्तविरलत्वेन अविर्वाक्षितत्वात् तत एवोच्यते- 'उभयाभावो पुढवाइएस विगलेसु होइ उबवन्नो' त्ति, उभयं प्रतिपद्यमानपूर्वप्रतिपन्नरूपं इति । 'बंदिय'त्ति (सू०५०) जेहिं ठाणेहिं णेरइयाणं असीति भंगा तेहिं ठाणेहिं वेदियतेंदियचउरिंदियाणं असीई चैव, तत्र एकादिसङ्ख्या| तान्तसमयाधिकायां जघन्यस्थितौ १ जघन्यावगाहनायां च २, तत्रैव च सङ्ख्येयान्तप्रदेशवृद्धायां ३ मिश्रदृष्टौ ४ च, नारकाणामशीतिर्भङ्गाः उक्ताः, विकलेन्द्रियाणामप्येतेषु स्थानेषु मिश्रदृष्टिवर्जेष्वशीतिरेव, अल्पत्वात् तेषां क्रोधाद्युपयुक्त स्यैकैकस्य सम्भवान्, | मिश्रदृष्टिस्तु विकलेन्द्रियेषु न स्यात् इति न विकलेन्द्रियाणां तत्राशीतिभङ्गसम्भव इति, इहैव विशेषाभिधानायाह-'णवर' मिति, दृष्टिद्वारे ज्ञानद्वारे च नारकाणां सप्तविंशतिरुक्ता विकलेन्द्रियाणां तु अब्भहियंति, अभ्यधिकानि अशीतिर्भङ्गकानां च भवति, क्वेत्याह- सम्यक्त्वे, अल्पीयसां हि विकलेन्द्रियाणां साखादनभावेन सम्यक्त्वं, अल्पत्वाच्च तेषामेकत्वस्यापि सम्भवादशीतिर्भङ्गाः, एवं मतिज्ञाने श्रुतज्ञाने च, तथा 'जेही' त्यादि, येषु स्थानेषु नारकाणां सप्तविंशतिर्भङ्गाः तेषु स्थानेषु द्वित्रिचतुरिन्द्रियाणां भङ्गकाभावः तानि च प्रागुक्ताशीतिभङ्गकस्थानावशेषाणि मन्तव्यानि भङ्गकाभावश्च क्रोधाद्युपयुक्तानामेकदैव बहूनां भावादिति, विकलेन्द्रियसूत्राणि पृथ्वीकायसूत्राणीवाध्येयानि, नवरमिह लेश्याद्वारे तेजोलेश्या नाध्येतव्या, दृष्टिद्वारे 'बेइंदिया णं भंते ! किं सम्मदिट्ठी मिच्छ० सम्मामिच्छ०१, गो० ! सम्मदिट्ठी मिच्छ० (णो) सम्मामिच्छद्दिड्डी "सम्महंसणे वद्यमाणा बेदिया किं कोहोबत्ता' इति प्रश्ने 66~ शतके ५ उद्देशः | ॥२९॥
SR No.006211
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages312
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size90 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy