SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२०] दीप अनुक्रम [२५] श्रीभग बती सूत्रम् “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १ शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [२०] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः मकामक्षुधा, 'अकामबंभ चेरवासेणं'ति अकामो वा निरभिप्रायों ब्रह्मचर्येण रूपादिभोगशून्येन वासो- रात्रौ शयनमकामब्रह्मचर्यवासोऽतस्तेन, 'अकाम'त्ति अकामा येऽस्नानकादयस्तेभ्यो यः परिदाहः तेन तत्र स्वेद:- प्रस्वेदः याति च लगति चेति जल्लो- रजो मल:- कठिनीभूतं रजः पङ्को मल एव स्वेदेनाद्रीभूतः 'भुजतरं वा' भूयस्तरं वा चहुतरं कालं यावदात्मानं 'परिकिलेसंति' विबाधयन्ति, 'कालमासे 'ति कालो- मरणं तस्य मासः कालमासः तस्मिन् कालं कृत्वेति 'उवय'त्ति उपपत्तारो भवन्ति, 'कुसुमिय'त्ति संजातपुष्पं 'मोयरिय'त्ति संजातकुसुमविशेष 'लवइयति लबकितं संजातपल्लवलव मंकुरवदिति 'थवइय'ति स्तवकितं जातपुष्पस्तवकं 'गुलइय'त्ति जातगुल्मकं, गुल्मकं लतासमूहः, 'गुच्छिय'त्ति संजातगुच्छं, गुच्छथ पत्रसमूहः, 'जमलियति यमलतया-समश्रेणितया तत्तरूणां व्यवस्थितत्वात् यमलितं 'जुगलिय'त्ति युगलतया तत्तत्रूणां युगलितं 'विणमि'त्ति विनमितं पुष्पफलभरेण, सुविभक्ताः सुनिष्पन्नतया पिण्ड्यो लुब्यो मञ्जर्यस्ता एवावतंसकाः - शेखरकास्तान् धारयतीति यत्तत्सुविभक्त पिण्डीलुम्बीमञ्जर्यवतंसकधरं 'सिरीए'ति श्रिया वनलक्ष्म्या 'आइण्णेति आकीर्णाः स्वस्व देवदेवीवृन्दैर्व्याप्ताः क्वचित्तु 'विइन्न'त्ति विकीर्णा - विशेषेण पूर्णाः, 'उवत्थडत्ति उत्पतद्भिर्निपतद्भिः क्रीडासक्तैरुपर्युपरिच्छादिताः उपस्तृताः 'संघड' समंततश्चरद्भिराच्छादिताः संस्तुताः 'फुड'त्ति स्पृष्टा आसनशयनादिना, स्फुटा वा निरन्तर व्यन्तरसुरनिकरकिरणोयोतेन 'अवगाढं 'त्ति गाढं चाढमवगाढा: सकल क्रीडाकारणस्थान भोगादिनाऽधोऽपि व्याप्ताः, प्राकृतत्वादवगाढा इति, इह च देवत्वयोग्यजीवाभिधाने तदयोग्यः सामर्थ्यादवसीयते, 'अत्थेगइए नो देवे सिय'त्ति 'सेवं भंते त्ति यत् मया पृष्टं तद् भगवद्भिः प्रतिपादितं तदेवं इत्थमेव भदन्त !, नान्यथा, अनेन भगवद्वचने बहुमानं दर्शयति, एवं कृत्वा श्रमणं० गौतमो वंदते नमस्यति चेति ॥ ~33~ ११ शतके ११ उद्देशः
SR No.006211
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages312
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size90 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy