________________
आगम
(०५)
प्रत
सूत्रांक
[१९]
दीप
अनुक्रम [२४]
श्रीभग
बती
सूत्रम्
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-१
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [१९] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
निर्वातीति प्रोच्यते स एव आयुरन्त्यसमये सर्वदुःखानामन्तं कुर्यादिति प्रश्नः, उत्तरं च कण्ठ्यं, 'नो इण्डे समडे' त्ति नायमर्थः समर्थो बलवान्. 'आउयवज्जाओ'त्ति यस्मादेकत्र भवग्रहणे सकृदेवान्तर्मुहूर्तमात्रकाले एवायुषो बन्धः तत उक्तमायुर्वर्खा इति, “सिढिलबंधणबद्धाओ'त्ति श्लथबन्धनं स्पृष्टता वा बद्धता वा निधत्तता वा तेन बद्धाः - आत्मप्रदेशेषु सम्बन्धिताः पूर्वावस्थायाम (संवृतत्वाद) शुभतरपरिणामस्य च कथंचिदभावादिति शिथिलबंधनबद्धाः, एताश्र शुभा एव द्रष्टव्याः, असंवृतभावस्य निन्दाप्रस्तावात्, ताः किमित्याह-'धणियबंधणबद्धाओ' त्ति गाढतरबंधना बद्धावस्था वा निधत्तावस्था वा निकाचितावस्था वा प्रकरोतिकर्तुमारभते, असंवृतत्वस्याशुभयोगरूपत्वेन गाढतरप्रकृतिबंधहेतुत्वाद्, आह च - "जोगा पयडिपएसं "ति, पौनःपुन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति, तथा 'हस्सकाल'त्ति हवकालस्थितिकाः दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थितिः - उपात्तस्य कर्मणोऽवस्थानं तामल्पकालां महतीं करोतीत्यर्थः, असंवृतत्वस्य कषायरूपत्वेन स्थितिबंधहेतुत्वाद्, आह च- “ठिहमणुभागं कसायओ कुणइ"त्ति, तथा 'मंदाणुभावे त्यादि, इहानुभावो विपाको रसविशेष इत्यर्थः, ततच मन्दानुभावाः - परिपेलवरसाः सतीर्गाढरसाः प्रकरोति, असंवृतत्वस्य कषायरूपत्वादेव, अनुभागबंधस्य च कषायप्रत्ययत्वादिति, 'अप्पपए से' त्यादि, अल्पं- स्तोकं प्रदेशाश्रंकर्मदलिकपरिमाणं यासां ताः तथा ता बहुप्रदेशाग्राः प्रकरोति, प्रदेशबंधस्यापि योगप्रत्ययत्वादसंवृतस्य च योगरूपत्वादिति, 'आउयं चेत्यादि, आयुः पुनः कर्म स्यात् कदाचिद् बध्नाति स्यात् - कदाचित् न बध्नाति यस्मात् त्रिभागाद्यवशेषायुषः परभवायुः प्रकुर्वन्ति इति, तेन यदा त्रिभागादिः तदा बध्नाति अन्यदा न बनातीति, तथा 'असायेत्यादि, असातावेदनीयं च दुःखवेदनीयं कर्म पुनर्भूयो भूय उपचिनोति - उपचितं करोति, ननु कर्मसप्तकान्तर्वर्त्तित्वादसातवेद्नीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपच
~31~
GİCİLİGİCİCK
१ शतके १ उद्देशः