________________
आगम
(०५)
प्रत
सूत्रांक
[ ३४४
३५१]
गाथा:
दीप अनुक्रम
[ ४२२
४२९]
श्रीभग०
लघुवृत्तौ
“भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [९], मूलं [ ३४४-३५१] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र- [ ०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
न्तकायिकानाश्रित्य सूत्रं, तत्रानन्त कायिकाः सङ्ख्यातगुणजीविता एवं, ते चायुष्कस्याबन्धकाः, तदेशबन्धकेभ्यस्सङ्ख्यातगुणा एव ते स्युः, यद्येवं तदबन्धकास्सिद्धादयस्तन्मध्ये क्षिप्यन्ते, तथापि तेभ्यस्सङ्ख्यातगुणा एव ते, सिद्धाद्यवन्धकानामनन्तानामप्यनन्त| कायिकायुर्बन्धकापेक्षया अनन्तभागत्वादिति, ननु चेदायुषोऽबन्धकास्संतो बन्धकास्स्युः तदा कथं न तेषां सर्वबन्धसम्भवः १, उच्यते, नह्यायुः प्रकृतिरविद्यमाना सती तैर्निबध्यते औदारिकादिशरीरवदिति न सर्वबन्धसम्भवः । प्रकारान्तरेणौदारिकादि चिन्तयन्नाह - 'नो बंधए 'ति न ह्येकसमये औदारिकवैक्रिययोर्बन्धो विद्यत इति हेतोर्न बन्धकः, एवमाहारकस्य, तैजसस्य पुनः सदाऽविरहितत्वात् बन्धको देशबन्धेन, सर्वबन्धश्च तस्य नास्त्येव, एवं कार्मणवपुषो वाच्यमिति, एवमौदारिकसर्वबन्धमाश्रित्य शेषाणां बन्धचिन्तनार्थोऽनन्तरं दण्डक उक्तः । अथौदारिकस्यैव देशबन्धमाश्रित्यान्यमाह - 'जस्स णमित्यादि । अथ वैक्रियस्य सर्वबन्धमाश्रित्य शेषाणां बन्धचिन्तनार्थोऽन्यो दण्डकस्तत्र 'तेयगकम्मगस्स जहेवेत्यादि, यथौदारिकशरीरसर्वबन्धकस्य तैजसकार्मणयोर्देशबन्धकत्वमुक्तमेवं वैक्रियशरीरसर्वबन्धकस्यापि तयोर्देशबन्धकत्वं वाच्यमिति भावः, वैक्रियदेशबन्धदण्डक आहारकस्य सर्वबन्धदेशबन्धकदण्डकद्वयं चेति त्रयं सुगममेव, तैजसदेशबन्धके तु बन्ध एव अबन्ध एवं वा, तैजसदेशबन्धक औदारिकवपुषो बन्धकः स्यादबन्धको वा, तत्र विग्रहे वर्त्तमानः अबन्धकः अविग्रहस्थश्च बन्धकः, स चोत्पत्तिक्षेत्रप्राप्तिप्रथमसमये सर्वबन्धकः द्वितीयादौ तु देशबन्धक इति, एवं कार्मणशरीरदेशबन्धदण्डकेऽपि वाच्यमिति । अथौदारिकादिशरीरदेशबन्धकादीना मल्पबहुत्वमाह -तत्र सर्व स्तोका आहारकशरीरस्य सर्वचन्धकाः यस्मात्ते चतुर्दशपूर्वधरास्तथाविधप्रयोजनवन्त एव कुर्वन्ति, सर्वबन्धकालय समयमेवेति, तस्यैव देशबन्धकाः सख्येयगुणाः, देशवन्धकालस्य बहुत्वात्, वैक्रियस्य सर्वबन्धका असङ्ख्येयगुणाः, तेषां तेभ्योऽसङ्ख्यातगुणत्वात् तस्यैव देशबन्धका
~302~
१८ शतके ९ उद्देशः
॥ १४७॥