SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ३४४ ३५१] गाथा: दीप अनुक्रम [ ४२२ ४२९] श्रीभग० लघुवृत्तौ “भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१ शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [९], मूलं [ ३४४-३५१] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ९ उद्देशः अविनिर्मुक्त एव स्यात् तस्मात् द्वयरूपस्य नास्त्यन्तरमिति । एतदल्पबहुत्वमाह - 'सब्वस्थोव' त्ति सर्वस्तोकास्तैजसवपुरबन्धकाः, २८ शतके सिद्धानामेव तदबन्धकत्वात्, देशबन्धका अनन्तगुणाः, तद्देशबन्धकानां सर्वसंसारिणां सिद्धेभ्योऽनन्तगुणत्वादिति । अथ कार्मणवपुः प्रयोगबन्धमाह-'नाणपडिणिपयाए त्ति (सू ३४९) ज्ञानस्य - श्रुतादेस्तदभेदात् ज्ञानवतां या प्रत्यनीकता तया, 'नाणनिहवणयाए 'ति ज्ञानस्य श्रुतवतां वा या निह्नवता- अपलपनं सा तयेति, 'नाणविसंवायण'त्ति ज्ञानस्य ज्ञानिनां वा विसंवादनयोगोव्यभिचारदर्शनाय व्यापारो यस्स तेन एतानि बाह्यकारणानि ज्ञानावरणीयकार्मणवपुर्वन्धे, अथ आन्तरं कारणमाह-'नाणावे' त्यादि, | 'दंसणपडिणीययाए 'त्ति दर्शनमिह चक्षुर्दर्शनादि, मोहनीयसूत्रे 'तिब्वदंसण मोहणिजयाए 'ति तीव्र मिध्यात्वतयेति, 'तिब्बचरित'ति कषायव्यतिरिक्तं नोकपायलक्षणं चारित्रमोहनीयमिह ग्रायं, 'तिब्बकोहं'ति तीव्रक्रोधतया कपायचारित्रमोहनीयस्य प्रागुक्तत्वादिति, 'कुणिमाहारेणं' मांसभोजनेन 'माइल'ति परवंचनमतितया 'नियडिल'त्ति निकृतिर्वञ्चनार्थं चेष्टा, मायाप्रच्छादनार्थं मायान्तरमित्येके, अत्यादरकरणेन परवञ्चनमित्यन्ये, तद्वत्तयेति, 'पगइति स्वभावतः परानुपघातितया 'साणुकोसत्ति सानुकम्पतया 'कायउज्जु' ति कायर्जुकतया परावंचनपरया कायचेष्टया 'भावज्जुय'ति भावर्ज्जुकतया परावश्ञ्चनपरमन:प्रवृत्येति, 'भासज्जुय'त्ति भापर्ज्जुकतया भाषार्जवेनेति, 'अविसंवायण'सि अविसंवादनयोगेन, कायर्जुकतादित्रयं वर्त्तमानकालाश्रयं अविसंवादनयोगस्त्वतीतवर्त्तमानकालद्वयाश्रयः, यो विशेषस्स उच्यते । 'सव्वत्थोवा जीवा आउयस्स कम्मसत्ति (सू. ३५१) सर्वस्तोकत्वमेव आयुर्वन्धाद्वायाः स्तोकत्वात्, अबन्धाद्वायास्तु बहुगुणत्वात्, तदचन्धकास्सख्यातगुणाः, नन्वसङ्ख्यातगुणास्तदबन्धकाः कस्माभोक्ताः १, तदबन्धाद्वाया असङ्ख्यातजीवितानाश्रित्यास ख्यातगुणत्वात् उच्यते, इदमन « JCDCDEarthe ~301~
SR No.006211
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages312
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size90 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy