SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३१५ ३२२] गाथा: दीप अनुक्रम [३८८ ३९६] श्रीभग० लघुवृत्तौ COCO 98958904999368500 “भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१ शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [ ३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः त्रीण्यज्ञानानि भजनया, 'सामाइय'त्ति सामायिकचारित्रलब्धिका ज्ञानिन एव तेषां च केवलवर्णानि चत्वारि ज्ञानानि भजनया, सामायिकचारित्रालब्धिकास्तु ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, छेदोपस्थापनीयादिभावेन सिद्धत्वेन वा ये वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनया, एवं छेदोपस्थापनीयादिष्वपि वाच्यं एतदेवाह ' एवं 'ति तत्र छेदोपस्थापनीयादिचारित्रत्रयलब्धयो ज्ञानिन एव तेषां चाद्यानि चत्वारि ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषामज्ञानत्रयं भजनयैव यथाख्यातचारित्रलब्धिकानां तु विशेषोऽस्ति अतस्तद्दर्शनायाह- 'नवर महक्वाय'त्ति सामायिकादिचारित्रचतुष्टयलब्धिमतां छद्मस्थत्वेन चत्वार्येव ज्ञानानि भजनया, यथाख्या| तचारित्रलब्धिमतां छस्थेतरभावेन पञ्चापि भजनया स्युरिति तेषां तथैव तान्युक्तानि, 'चरित्ताचरित्त'ति 'तस्स अलद्धि'ति चारित्राचरित्रालब्धिकाः श्रावकादन्ये, ते च ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनयैव, 'दाणलद्धि'त्ति दानान्तरायक्षयक्षयोपशमाद् दाने दातव्ये लब्धिर्येषां ते दानलब्धिकाः, ते ज्ञानिनोऽज्ञानिनश्च तत्र ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, केवलिनामपि दानलब्धियुक्तत्वात्, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनयैव, दानालब्धिकास्सिद्धास्ते दानान्तरायक्षयेऽपि दातव्याभावात् सम्प्रदानासच्चात् दानप्रयोजनाभावाच्च दानालब्धय उक्ताः, ते च नियमात् केवलज्ञानिन इति, ' एवं 'ति लाभभोगोपभोगवीर्यलब्धय एवं ज्ञेयाः, तदलब्धयः सिद्धानामेवो कन्यायादवसेयाः, ननु दानाद्यन्तरायक्षयात् केवलिनां दानादयः कस्मान्न स्युः १, उच्यते, प्रयोजनाभावात् कृतकृत्यास्ते भगवन्तः, 'बालवी रिय'त्ति वालवीर्यलब्धयोऽसंयताः तेषां ज्ञानिनां त्रीणि ज्ञानानि, अज्ञानिनां च त्रीण्यज्ञानानि भजनया, तदलब्धिकास्तु संयतासंयताः संयताच ते च ज्ञानिन एव तेषां पञ्च ज्ञानानि भजनया, 'पंडियबीरिय'त्ति 'तस्त अलद्धित्ति असंयतानां संयतासंयतानां सिद्धानां चेत्यर्थः, तत्रासंयतानामायं ~ 252~ ८ शतके उद्देशः ॥१२२॥
SR No.006211
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages312
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size90 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy