SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आगम (०५) “भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१ शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [ ३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः श्रीभगमनःपर्यायज्ञानानि वा केवलज्ञानवर्णानि चत्वारि वा ज्ञानानि स्युः ये वज्ञानिनस्तेषामाद्यमज्ञानद्वयं तत्रयं वा स्याद्, एवं भजना अवसेयेति । 'अनाणलद्धियाणं ति अज्ञानलब्धिका अज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनया, द्वे अज्ञाने त्रीण्यज्ञानानि वा, अज्ञानालब्धिकास्तु ज्ञानिनः, तेषां च पञ्च ज्ञानानि भजनया पूर्वीपदर्शितया वाच्यानि, 'जहा अन्नाणे' त्यादि, यथा अज्ञानलब्धिकानां त्रीण्यज्ञानानि भजनयोक्तानि मत्यज्ञानश्रुताज्ञानलब्धिकानामपि तानि तथैव तथा अज्ञानालब्धिकानां पञ्च ज्ञानानि भजनयोक्तानि मत्यज्ञानथुताज्ञानालब्धिकानामपि पञ्च ज्ञानानि भजनयैव वाच्यानि विभङ्गज्ञानलब्धिकानां त्रीण्यज्ञानानि नियमात्, तदलब्धिकानां पञ्च ज्ञानानि भजनया, अज्ञानिनां च द्वे अज्ञाने नियमादिति । 'दंसणलद्धित्ति दर्शनलब्धिकाः, श्रद्धानमात्रलब्धिका इत्यर्थः ते च सम्यक् श्रद्धानवन्तो ज्ञानिनस्तदितरे त्वज्ञानिनः, तत्र ज्ञानिनां पञ्च ज्ञानानि भजनया, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैवेति, 'तस्स अलद्धिया नत्थि'त्ति तस्य दर्शनस्य येषामलब्धिस्ते न संत्येव, सर्वजीवानां रुचिमात्र स्वास्तित्वादिति, 'सम्म हंसणलद्धित्ति सम्यग्दर्शनलब्धिकानां 'तस्स अलद्धि'ति तस्थालब्धिकानां सम्यग्दर्शन थालब्धिमतां मिध्यादृष्टीनां मिश्रदृष्टीनां च त्रीण्यज्ञानानि भजनया, यतो मिश्रदृष्टीनामप्यज्ञानमेव, तात्विकसद्बोधाहेतुत्वान्मिश्रस्येति, 'मिच्छादंसणलद्धि'त्ति मिथ्यादृशां, 'तस्स अलद्धि'त्ति तस्यालन्धिकानां मिथ्यादर्शनालब्धिमतां सम्यग्दशां मिश्रीनां च क्रमात् पञ्च ज्ञानानि त्रीण्यज्ञानानि च भजनयेति, 'चरित्तलद्धि'त्ति चरित्रलब्धिका ज्ञानिन एव तेषां पञ्च ज्ञानानि भजनया, यतः केवल्यपि चारित्री चरित्रालब्धिकास्तु ये ज्ञानिनस्तेषां मनः पर्यववर्जानि चत्वारि ज्ञानानि भजनया स्युः, कथं ?, असंयतत्वे आयं ज्ञानद्वयं तत्रयं वा, सिद्धत्वे च केवलज्ञानं, सिद्धानामपि चारित्रलब्धिशून्यत्वाद्, यतस्ते 'नो चारित्रिणो नो अचारित्रिण' इति, ये त्वज्ञानिनस्तेषां लघुवृत्तौ COCJOC DOC JOC JIC JOGJ ~ 251~ C ८ शतके २ उद्देशः
SR No.006211
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages312
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size90 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy