SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३१५ ३२२] गाथा: दीप अनुक्रम [३८८ ३९६] श्रीभगः लघुवृत्तौ “भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१ शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [ ३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः इति, 'जहा पुढविकाइय'त्ति एकेन्द्रिया मिध्यादृष्टित्वादज्ञानिनस्ते च द्वयज्ञाना एवेत्यर्थः, 'वेंदिये' त्यादि, एषां द्वे ज्ञाने साखादनस्तेषूत्पद्यते इतिकृत्वा सास्वादनश्चोत्कृष्टतः पडावलिकामानः, अतो द्वे ज्ञाने तेषु लभ्येते, 'अनिंदि'त्ति अनिन्द्रियाः-केव लिनः 'सकाइया णं'ति सह कायेन - औदारिकादिशरीरेण पृथ्व्यादिषट्कायान्यतरेण वा ये ते सकायिकाः, ते च केवलिनोऽपि स्युरिति सकायिकानां सम्यग्दृशां पञ्च ज्ञानानि, मिथ्यादृशां तु त्रीण्यज्ञानानि भजनया स्युरिति, अकायिकास्सिद्धा एवेति । सूक्ष्मद्वारे 'जहा पुढवि'त्ति द्वयज्ञानिनः सूक्ष्माः, मिथ्यादृक्त्वात्, 'जहा सकाइ'ति बादराः केवलिनोऽपि स्युरिति ते सकाकिवद् भजनया पञ्चज्ञानिनः त्र्यज्ञानिनश्च वाच्याः । पर्याप्तकद्वारे चतुर्विंशतिदण्डके पर्याप्तकनारकाणां त्रीण्यज्ञानानि नियमात्, अपर्याप्तकानामेव संज्ञिनारकाणां विभङ्गाभाव इति पर्याप्तावस्थायां तेषामज्ञानत्रयमेवेति 'एवं जाव चउरिंदिय'त्ति द्वित्रिचतुरिन्द्रियाः पर्याप्तका द्वथज्ञानिन एवेत्यर्थः, 'पज्जत्ता णं भंते ! पंचिंदियतिरिक्ख'त्ति पर्याप्तकपञ्चेन्द्रियतिरश्चामवधिर्विभङ्गो वा केषांचित् स्यात् केषांचिन्नेति त्रीणि ज्ञानानि अज्ञानानि वा द्वे ज्ञाने अज्ञाने वा तेषां स्वातामिति, बेंद्रियाणं दो नाण'त्ति अपर्या सकद्वीन्द्रियादीनां केषां चित्सास्वादन सम्यग्दर्शन सद्भावात् द्वे ज्ञाने, केषांचित्तु तदभावात् द्वे अज्ञाने, अपर्याप्तकनराणां सम्यग्दृशामवधिभावे ज्ञानत्रयं यथा तीर्थकृतां, तदभावे तु द्वे ज्ञाने, मिध्यादृशां तु द्वे अज्ञाने, तेषामपर्याप्तकत्वे विभङ्गाभावात्, अत एवोक्तम्'तिन्नि नाणाई भयणाए दोष्णि अष्णागा नियम' त्ति, 'वाणमंतर'त्ति व्यन्तरा अपर्याप्तका नारका इव त्रिज्ञानाः व्यज्ञाना वा वाच्याः, तेष्वसंज्ञिभ्य उत्पद्यमानानामपर्याप्तकानां विभङ्गाभावात् शेषाणां चावधेर्विभङ्गस्य च भावादिति, 'जोइसिय'त्ति एतेषु संज्ञिभ्य एवोत्पद्यन्ते तेषामपर्याप्तकत्वेऽपि भवप्रत्ययस्यावधेर्विभङ्गस्य वाऽवश्यंभावात् श्रीणि ज्ञानानि अज्ञानानि वा स्युरिति । ~246~ ८ शतके २ उद्देशः ॥११९ ॥
SR No.006211
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages312
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size90 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy