________________
आगम
(०५)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम
[82]
श्रीभगवतीसूत्रम्
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-१
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [१३] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
105
यकर्मद्रव्यराशिर्वर्गणा, तामधिकृत्य आश्रित्य कर्मद्रव्यवर्गणासत्का इत्यर्थः, 'अणू चेव'त्ति सूक्ष्माथ बादरायेति, यत औदारिकादिद्रव्याणां मध्ये कर्मद्रव्याण्येव सूक्ष्माणि, एवं चयादयः शब्दार्थभेदेन वाच्याः, किंतु चयोपचयस्त्रयोः 'आहारदव्य'त्ति आहाद्रव्यवर्गणामधिकृत्योक्तं तत्रायमभिप्रायः - वपुराश्रित्य चयोपचयौ प्रागुक्त आहारद्रव्येभ्य एव स्यातां नान्यतः, अत आहारद्रव्यवर्गणामाश्रित्योक्तमिति, उदीरणादयस्तु कर्मद्रव्याणामेव स्युः अतः तत्सत्रेपूक्तम्- कर्मद्रव्यवर्गणामधिकृत्येति, 'उयहिंसुति ३ अपवर्तितवन्तः, इहापवर्तनं कर्मस्थित्यादेरध्यवसायविशेषेण हीनताऽऽपादनम्, एतदुपलक्षणत्वादुद्वर्तनमपि दृश्यं तच स्थित्यादेवृद्धिकरणं, 'संकामिंसु'त्ति ३ संक्रमितवन्तः, तत्र संक्रमणं मूलप्रकृत्यभिन्नानामुत्तरप्रकृतीनामध्यवसायविशेषेण परस्परं संचारणं, तथा चाह - "मूलप्रकृत्यभिन्नाः संक्रमयति गुणत उत्तराः प्रकृतीः । नन्वात्माऽमृर्तत्वादध्यवसायप्रयोगेण || १ ||" अन्यस्त्वेवमाह“मोसूण आउयं खलु दंसणमोहं चरित्तमोहं च । सेसाणं पगईणं उत्तरविहिसंकमो भणिओ || १ ||" एतदेव निदर्श्यते - यथा कस्यचित् सद्वेद्यमनुभवतोऽशुभकर्मपरिणतिरेवंविधा संजाता येन तदेव सद्वेद्यमसद्वेद्यतया संक्रामतीति, एवं वर्तमानानागतयोरपि वाच्यं, 'निहात्तिसु' ति३ निघत्तान् कृतवन्तः, इह विश्लिष्टानां मध्ये मिथःपुद्गलानां निचयं कृत्वा धारणं रूढिशब्देन निघत्तमुच्यते, उद्वर्तनापवर्तनव्यतिरिक्तकरणानामविषयेण कर्मणोऽवस्थानमिति 'निकाइंसु 'त्ति ३ निकाचितवंतो- नितरां बद्धवन्तः, निकाचनं चैषामेव पुद्गलानां मिथोविश्लिष्टानामेकीकरणमन्योऽन्यावगाहिताग्निप्रतप्तप्रतिहन्यमानसूची कलापस्येव सकलकरणानामविषयत्वेन कर्मणां व्यवस्थापनं, भेइयेतिपदसंग्रहगाथा गतार्था । अथ पुद्गलाधिकारादिदं सूत्रचतुष्कमाहनेरइयाणमिति व्यक्तं (सू० १४)
~24~
१ शतके
१ उद्देशः
॥८॥