________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [६], वर्ग H, अंतर्-शतक H, उद्देशक [१०], मूलं [२५४-२५८] + गाथा मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
शतके
प्रत सूत्रांक [२५४२५८]
दीप अनुक्रम [३२०३२६]
श्रीभग पनेरइए नेरइए णं जीवेत्ति नारकादिषु पदेषु पुनर्जीवत्वमव्यभिचारि जीवेषु तु नारकादित्वं व्यभिचारि इत्यत आह-'जीवे लघुवृत्ती पुण सिय नेरइए सिय अनेरइए' इति, जीवाधिकारादिदमाह-'जीवति भंते जीवे 'त्ति जीवति-प्राणान् धारयति यः स |
जीवः, उत यो जीवः स जीवति इति प्रश्नः, उत्तरं तु यो जीवति स तावनियमाजीवः, अजीवस्य आयुष्कर्माभावेन जीवनाभावात् , जीवस्तु स्थाजीवति स्थान जीवति, सिद्धस्य जीवनाभावाद् अशरीरत्वेनेति, 'जीवति भंते ! नेरइए'त्ति नारकादिस्तु नियमाजीवति, संसारिणः सर्वस्व प्राणधारणधर्मकत्वात् , जीवतीति पुनः स्थान्नारकादिः स्यादनारकादिः, प्राणधारणस्य सर्वेषां सद्भावादिति । 'आहच साय'ति (स. २५६) कदाचित् साता-वेदना, कथमिति चेत् , उच्यते-'उववाएण व सायं णेरइओ देवकम्मुणा वावि।" 'आहच असायंतीति देवा आहननप्रियविप्रयोगादिष्वसातां वेदनां वेदयन्ति, 'वेमायाए'त्ति विविधया मात्रया, कदाचित् सातां कदाचिदसातामित्यर्थः । 'अत्तमायाए'ति (पू. २५७) यान पुद्गलान् आत्मना आदाय-गृहीत्वा 'आयसरीर'त्ति खवपुरवगाढक्षेत्रावस्थितानिति, 'अणंतर'त्ति स्वरपुःक्षेत्रापेक्षयाऽनन्तरक्षेत्रावगाढानिति, 'परंपर'न्ति आत्मक्षेत्राद्यत्परं क्षेत्र तत्रावगाढानिति । 'आयाणेहिंति (सू. २५८) आदानैः-इन्द्रियैः 'जीवाण य सुहदुक्खंति (*५२) दश| मोद्देशकसहगाथा गतार्था ।। दशमोद्देशक विवरणम् ॥
इति श्रीलक्ष्मीसागरसूरिशिष्यशतार्थिश्रीजिनमाणिक्यगणिशिष्यश्रीअनन्तहंसगणिशिष्य
थीदानशेखरगणिसमुद्धतायां भगवतीलघुवृत्ती षष्ठ शतविवरण सम्पूर्णम् ॥
॥१००
अथ शतक-६ उद्देशक: १० समाप्त:, तत् समाप्ते शतक-१० अपि परिसमाप्तं
~208