________________
आगम
(०५)
प्रत
सूत्रांक
[२३२
२३७]
दीप
अनुक्रम
[ २८०
२८५ ]
श्रीभग०
लघुवृत्तौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक [६], वर्ग [-] अंतर-शतक [-] उद्देशक [३], मूलं [२३२-२३७] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
ओ' त्ति सर्वतः सर्वासु दिक्षु सर्वान् वा जीवप्रदेशानाश्रित्य वध्यन्ते चीयन्ते बन्धनतः, उपचीयन्ते - निषेकरचनतः, अथवा वध्यन्ते बन्धनतः चीयन्ते निघततः उपचीयन्ते निकाचनतः, सदा-सर्वदा समितं सततं, 'तस्स आयत्ति यस्य जीवस्य पुगला बध्यन्ते तस्यात्मा बाह्यात्मा, शरीरमित्यर्थः, 'अणिडत्ताए' इच्छाया अविषयतया 'अकंतत्ताए' असुंदरतया 'अप्पिय त्ताए' अप्रेमहेतुतया 'असुभत्ताए' अमङ्गलतया 'अमणुन्नत्ताए' न मनसा भावतो ज्ञायते सुन्दरोऽयमित्यमनोज्ञस्तद्भावस्तत्ता तया 'अमणामत्ताए' न मनसा अम्यते गम्यते संस्मरणतोऽमनोऽमस्तद्भावस्तत्ता तया 'अणिच्छियत्ताए' अनीप्सिततया - प्राप्तुमवाञ्छितत्वेन 'अहिज्झियत्ताए' मिध्या-लोभः, सा सञ्जाता यत्र स भिध्यितो न भिध्यितः अभिध्यितस्तद्भावस्तत्ता तया 'अहत्ताए' जघन्यतया, 'नो उत्ताए' न मुख्यतया 'अहयस्स' त्ति अपरिभुक्तस्य 'धोयस्स' नीरधौतस्य तंतुवायस्स्य तत्रात् तुरिवेमादेरपनीतमात्रस्य 'बज्झती' त्यादिना पदत्रयेणेह वस्त्रस्य पुद्गलानां च यथोत्तरं सम्बन्धप्रकर्ष उक्तः, 'भिशंति'त्ति प्राक्तनसम्बन्धविशेषत्यागात् छिअंति- विशेषतः, विद्धस्संति ततोऽधःपातात्, परिविद्धस्संति, विशेषतया पातात्, 'जल्लियस्स' जल्लितस्य - यानगलनधम्र्मोपेतमलयुक्तस्य 'पंकियस्स' पङ्कितस्य- आर्द्रमलोपेतस्य 'महलियम्स' मलिनस्य- कठिनमलयुक्तस्य 'परिकम्मिजमाणस्स' क्रियमाणशोधनार्थोपक्रमस्य ॥ 'वत्थस्सत्ति (०२३३) वस्त्रस्य द्वारे 'पओगसा वीससा' छांदसत्वात् प्रयोगेण पुरुषव्यापारेण विस्रसा-स्वभावेन, 'जीवाणं कम्मोवचए पओगसा नो बीससा, प्रयोगेणैव, अन्यथा अयोगस्यापि बन्धप्रसङ्गः, सादिद्वारे 'इरियावहियबंधगस्स त्ति (सू० २३४) ईर्यापथ-गमनमार्गस्तत्र भवमेर्यापथिकं - केवलयोगप्रत्ययं कर्म तद्वन्धकस्य, उपशान्तमोहस्य क्षीणमोहस्य संयोगिकेवलिनश्चेति भावः, ईर्यापथिककर्मणो हि अबद्धपूर्वस्य बन्धनात् सादित्वं, अयो
अत्र शतक - ६ उद्देशकः ३ एव वर्तते यत् मूल संपादने उद्देशक: १ मुद्रितं तत् मुद्रणदोषः अस्ति
177~
६ शतके
१ उद्देश: