SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२२० २२१] दीप अनुक्रम [२६२ २६३] श्रीभगः लघुवृत्तौ “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १ शतक [५], वर्ग [-] अंतर-शतक [-] उद्देशक [८], मूलं [२२०-२२१] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः सङ्ख्येया वासाः, इह विरहकालस्य सङ्ख्यातमासवर्षरूपस्य द्विगुणितत्वेऽपि सङ्ख्यातत्वमेवेत्यतः सङ्ख्यातमासाः इत्युक्तं, 'एवं गेवेज्ज देवाणंपि' इह यद्यपि ग्रैवेयकाधस्तनत्रये सख्यातानि शतानि वर्षाणां मध्यमे सहस्राणि उपरिमे लक्षाणि विरह उच्यते तथापि द्विगुणनेऽपि सङ्ख्यातवर्षत्वं न विरुध्यते, विजयादिषु त्वसङ्ख्यातकालो विरहः, स च द्विगुणितोऽपि स एव, सर्वार्थसिद्धे पल्योपमसङ्ख्येयभागः, सोऽपि द्विगुणितः सख्येयभाग एव स्यात्, अत उक्तम्- 'विजयवेजयन्तजयंतापराजियाणं असंखिजाई वाससहस्साई' इत्यादि । 'सिद्धा सोबचय'त्ति अनेक सिद्धानामेकसमये द्वद्यादीनामष्टोत्तरशतान्तानां प्ररूपणागाथामाह सङ्ग्रहिण्यां यथा 'बत्तीसा अडयाल० त्ति एतद्व्याख्या यदेकसमयेनैकादय उत्कर्षतो द्वात्रिंशत्सिद्ध्यन्ति एवं द्वितीयसमयेऽपि द्वात्रिंशद् एवं नैरन्तर्येण अष्ट समयान् यावद् द्वात्रिंशत्सिद्ध्यन्ति ततोऽवश्यमन्तरं स्यात् यदा ४८ एकसमयेन सिद्ध्यन्ति तदा निरन्तरं सप्त समयान्, तदनन्तरमन्तरं, यदा एकोनपञ्चाशतमादौ कृत्वा एकसमयेन षष्टिः सिद्ध्यन्ति तदा निरन्तरं ६ समयान्, तदुपर्यन्तरं समयादि स्यात्, एवमग्रेऽपि ज्ञेयं यावदष्टोत्तरशतमेकसमयेन सिद्ध्यति, तदनन्तरमवश्यमन्तरं इत्युक्ताः सिद्धाः सोपचयाः । अथ जीवानेव भङ्गान्तरेणाह - सोपचयाः सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात्, सापचयाः प्राक्तनेभ्यः केषाञ्चिदुद्वर्त्तनात् सक्षया इति, सोपचयसापचया उत्पादोद्वर्त्तनाभ्यां वृद्धिहान्योर्युगपद्भावात्, निरुपचयनिरपचया उत्पादोद्वर्त्तनयोरभावेन वृद्धिहान्योरभावात्, ननूपचयो वृद्धिः, अपचयस्तु हानिः युगपत् द्वयमद्वयं चावस्थितत्वमेवं च शब्दभेदव्यतिरेकेण कोऽनयोः सूत्रयोर्भेदः १, उच्यते, पूर्वत्र परिमाणमभिप्रेतमिह तु तदनपेक्षमुत्पादोद्वर्त्तनामात्रं, ततखेह तृतीयभङ्ग के पूर्वोक्तवृद्ध्यादिविकल्पानां त्रयमपि स्यात्, तथाहिबहुतरोत्पादे वृद्धिः, बहुतरोद्वर्त्तने च हानिः, समोत्पादोद्वर्त्तनयोश्वावस्थितत्वमित्येवं भेदः, 'एगिंदिया तझ्याए' सोपचयास्सा 170~ ९ शतके ८ उद्देशः ॥८१॥
SR No.006211
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages312
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size90 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy