________________
आगम
(०५)
प्रत
सूत्रांक
[ १०५ ]
दीप
अनुक्रम
[ १२९]
श्रीभग लघुवृत्तौ
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-१
शतक [२], वर्ग [-] अंतर् शतक [-] उद्देशक [ ५ ], मूलं [ १०५ ] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
योनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्ते, कस्यामसावृत्पद्यते ?, 'कम्मकडाए' त्ति नामकर्मनिर्वर्त्तितायां योनौ अथवा कर्ममदनोद्दीपकव्यापारस्तत् कृतं यस्यां सा कर्मकृता तस्यां मैथुनस्य वृत्तिः प्रदृत्तिर्यस्मिन्नसौ मैथुनं वा प्रत्ययो - हेतुर्यस्मिन् स मैथुनप्रत्ययिकः, 'ते दुहओ'त्ति ते इति स्त्रीपुरुषौ उभयतः स्नेहं रेतः शोणितलक्षणं सञ्चिनुतः - सम्बन्धयतः ॥ अथ मैथुनस्यैवासंयमहेतुतामाह- 'रूपनालियं वत्ति (सू० १०५) रुतं- कर्पासविकारः, तद्द्भुता नालिका तां, चूरनालिकामपि, नवरं बूरं वनस्पतिविशेषावयवविशेषः, 'समभिधंसेज 'त्ति सममिध्वंसयेत् ।। ' तेण 'मित्यादि ( सू० १०६) 'अद्ध'त्ति आढ्या धनादिभिः 'दित्त'त्ति दीप्ताः, 'वित्थिष्ण' त्ति विस्तीर्णानि - विपुलानि प्रचुराणि भवनानि गृहाणि शयनासनवाहनैराकीर्णानि व्याप्तानि येषां ते तथा, तत्र यानं गन्ध्यादि वाहनं त्वश्वादि, 'बहुघण'त्ति बहुधनं-गणिमादि, तथा बहेव जातरूपं सुवर्ण रजतं रूप्यं येषां ते तथा, 'आओगत्ति आयोगो - द्विगुणादिवृद्ध्याऽर्थप्रदानं प्रयोगः कलान्तरं तौ सम्प्रयुक्तौ व्यापारितौ यैस्ते, 'विच्छाडिय'त्ति विच्छर्दितं विविधमुज्झितं बहुलोकभोजनतः उच्छिष्टविशेषसम्भवात् विपुलं भक्तं पानकं येषां ते, बहवो दासीदासा येषां ते, गोमहिपगवेलकाश्च प्रभूता येषां गवेलका-उरभ्राः, 'आसवे'त्यादी क्रिया- कायिकयादयः, अधिकरणं गत्रीमुशलोपलाः 'असहेज' चि न विद्यते साहाय्यं परसाहायिकमत्यन्तसमर्थत्वाद्येषां ते असहाय्याः ते च ते देवादयच, अथवा असाहाय्या इति व्यस्तमेव, असुरा नागा भवनपतयः, 'सुवण्ण'त्ति सद्वणों-ज्योतिष्काः, यक्षादयः सर्वे व्यन्तरविशेषाः, लब्धार्था अर्थश्रवणात् गृहीतार्था अर्थावधारणात् पृच्छितार्थाः प्रश्नकरणात् अधिगतार्थाः प्रश्नार्थाभिगमात्, 'अट्टिमिंज' त्ति अस्थीनि च कीकसानि मिखा च तन्मध्यवर्त्ती धातुः, अस्थिमञ्जाः, प्रेमानुरागेण सर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिरागेण रक्ता इव रक्ता येषां ते, अथवाऽस्थिमिखासु जिन
~ 107~
CococcicitK
शतके
१५ उद्देशः