________________
आगम
(०५)
प्रत सूत्रांक
[९१-९५]
दीप
अनुक्रम
[११३
११७]
श्रीभग० लघुवृत्तौ
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक [२], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [९१-९५] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
मेति मम उत्थानादि, न सर्वथा क्षीणमिति भावः, 'सं जाथ ता मे 'ति तत् तस्मात् यावत् ता इति भाषामात्रे मे - ममास्तीति 'जाब यत्ति यावच्च 'सुहत्थी'ति शुभार्थी भव्यान् प्रति, सुहस्ती वा पुरुषवरगन्धहस्ती वा 'कल्लं'ति श्वः 'पाउ'त्ति प्रादुः- प्रकटप्रभातायां रात्रौ 'फुल्ल'त्ति उत्फुल्लं यदुत्पलं पद्मं कमलच-हरिणविशेषस्तयोः कोमलमुन्मीलितं - उन्मीलनं यत्र तत्तथा, 'कडाई हिं' इह पदैकदेशात्पदसमुदायो दृश्यः, ततः कृतयोग्यादिभिः, तत्र कृता योगाः - प्रत्युपेक्षणादिव्यायारा यैस्ते कृतयोगिनः, आदिशब्दात् प्रियधर्माणो दृढधर्माण इति, 'विउलं' ति 'विपुल गिरिमेहघण'त्ति घनमेघसनिकाशः - सान्द्रजलदसदृशं देवानां सनिपातः--समागमो रमणीयत्वाद्यत्र तं 'संलेहण'त्ति संलिख्यते- कृशीक्रियते अनया इति संलेखना तस्या झोसणा सेवा, तया 'झुसिए' त्ति जुष्टः सेवितः 'भत्तपाण'ति प्रत्याख्यातभक्तपानस्य कालं मरणं 'इतिकडु' इतिकृत्वा 'संपेहेइ'त्ति सम्प्रेक्षते - पर्यालोचयति, 'उच्चार'ति पादपोपगमनादारादुच्चारादिभूमीः प्रतिलेखयति, उच्चारादेस्तस्य कर्त्तव्यत्वात् तद्भूमिप्रतिलेखनं न निरर्थकं, 'सहि भत्ताई' ति प्रतिदिनं भोजनद्वयत्यागात्रिंशता दिनैः षष्टिभक्तानि व्यक्तानि स्युः, 'अवसणाप' प्राकृतत्वादनशनेन 'छेड़त्ता' छिन्या परित्यज्य 'परिनिव्वाणवत्तियं'ति परिनिर्वाणं मरणं तदेव प्रत्ययो हेतुर्यस्य तं परिनिर्वाणप्रत्ययं ॥ द्वितीयशते प्रथमोद्देश कविवरणम् ॥
अथ द्वितीय आरभ्यते- 'समुग्धाय'त्ति (सू० ९६) सम् - एकीभावे उत - प्राबल्ये, ततश्व एकीभावेन प्राबल्येन च घाताः समुद्धाताः अथ प्राबल्येन घाताः कथम् ?, उच्यन्ते यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यान् उदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैस्सह शिष्टान् शातयतीत्यर्थः, 'सत्त' त्ति वेदना
अत्र शतक-२, उद्देषकः १ समाप्तः, अथ शतक-२ उद्देशकः २ आरब्धः
102~
२ शतके
२ उद्देशः
॥४७॥