________________
सूक्तमुक्तावली
८- अथ ज्ञानोपरि मासतुषयोरुभयोर्भ्रात्रोः कथानकम्'
मासतुषनामानावुभौ भ्रातरावभूताम् । तावुभौ विषयविमुखौ समागतवार्धक्यौ कस्यचन मुनेः पार्श्वे दीक्षामग्रहीष्टाम् । प्राक्तनकर्मदोषवशाच्छ्राम्यतोरपि तयोरेकाक्षरमपि यदा शिक्षितं नाऽभूत्, तदा तयोश्चेतसि महान् खेदोऽजनि । अहो ! ज्ञानसम्पादनाय यतमानयोरप्यावयोरेकपदमपि नैव समायाति । तर्ह्यधिकज्ञानस्य का वार्ता ? ज्ञानेन विना किलाऽऽवयोरन्येऽपि गुणा नैव भवितुमर्हन्ति । तद्विहीना मुनयो लोकैरपि नाद्रियन्ते ।
-
|
इत्थं खिद्यमानमानसौ समुपविष्टौ तावालोक्य गुरुरूचे-भो मुनी ! युवाञ्चिन्तातुरौ कथं दृश्येथे। तदुक्तिमाकर्ण्य स्वचिन्ताकारणं तौ तमूचतुः । तच्छ्रुत्वा पुनस्तौ गुरुरवादीत् - भो मुनी ! युवाभ्यां सत्यमुक्तम् । परं मुनिभिरखिलैरपि पठितुम्प्रयत्नो यथामति विधातव्यः। यदि कस्यचिज्जन्मान्तरीय-ज्ञानान्तराय - कर्मदोषाद ज्ञानं नायाति तदा तेन मनसि खेदो न कर्तव्यः । यदुक्तं नीतिशास्त्रे - "यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः " अत्र युवयोः को दोषः । यदि कठिनम्पदं शिक्षितं न शक्यते तर्हि सरलमत्यल्पाक्षरकमपि बह्वर्थकमेव पदं युवामहं पाठयिष्यामि, यावदेव सुखेन युवयोरायाति तावदेव यथामति यत्नतः प्रत्यहं पठनीयम् । अधिकं ज्ञानमावयोर्नाऽऽयातीति मा शोचिष्टम् । इत्थं पठतोर्युवयोरल्पज्ञानेनैव कल्याणं भविष्यति ।
ततो गुरुस्तयोः "मा रुष्य-रुष, मा तुष्य - तुष', इत्येतत् पद1. अन्य कथानक एकैव श्रमणस्य वर्णनमस्ति ।
58