________________
सूक्तमुक्तावली
द्वयमेव पाठितम् । परन्तु बलवत्तरप्राक्तनज्ञानान्तरायकर्मोदयादेतस्यापि सम्यगुच्चारणं तयोर्नाऽभूत् । तथापि गुरुवचसि कृतविश्वासौ तावुभौ तदेव मुहुर्मुहुर्गच्छन्तौ स्वपन्तौ तिष्ठन्तावभ्यसितुं लग्नौ । क्षणमपि तदभ्यासतो न विरेमाते, तन्मुखाच्छृण्वन्तः शिशवोऽपि तत्पदद्वयं मुखपाठञ्चक्रिरे । किन्तु तयोः सम्यगभ्यस्तं तन्नाऽभूत् ।
ततः सर्वदैव तदेवोच्चरन्तौ वीक्ष्य सर्वेऽपि तन्नाम्नैव तावुभौ समाह्वयितुं लग्नाः । यदा तौ गोचर्यादि लातुं नगरं गच्छन्तौ तदा तावालोक्य कियन्तो बालकास्तदीयमोघं - रजोहरणं केचन वस्त्रं केचिच्च कम्बलमन्ये च दण्डं बलादागृह्णन्त आसन् । तथापि बालकृतोपद्रवं सोढुमशक्यमपि सानन्दं सहमानौ तौ मनागपि तदुपरि रोषं न चक्राते । इत्थमल्पतरज्ञानसमावेशाद्वर्ष क्रोधौ जित्वा शान्ति-सुधारससागरमग्नमानसौ तौ शुक्लध्यानं विदधतौ क्रमशः क्षपकश्रेण्यामागतौ, सञ्जातकैवल्यज्ञानौ मोक्षं प्रापतुः ।
भो भो भव्याः ! पश्यत ज्ञानबलम् । यन्मासतुषयोर्महामन्दमत्योरप्यल्पतरपदद्वयज्ञानमात्रादेव महोपकारोऽभूत् । यदि युष्माकमधिकं ज्ञानं स्यात्तर्हि संसारेऽस्मिञ्जीवन्तो भवन्तः सर्वा अपि सुखसम्पदो भोक्ष्यन्ते, परत्र चाऽतिदुर्लभमपि शाखतं शिवसुखं वः करतलाऽधिगतमिव सुकरमेव भवितेति मत्वा सर्वैरपि लौकिकपारलौकिकसुखार्थिभिज्ञानसम्पादनायाऽवश्यमेव प्रयतितव्यम् ।
ॐ
२- अथ मनुष्यजन्मविषये
भवजलधि भमंतां कोई वेला विशेषे,
59