________________
सूक्तमुक्तावली
मनुअ जनम लाधो दुल्लहो रत्न लेखे । सफल कर सुधर्मा जन्म ते धर्मयोगे, परभव सुख जेथी मोक्षलक्ष्मी प्रभोगे
॥११॥ हे भव्याः! इहाऽपारसंसारसागरे निमज्जतां भवतामदृष्टयोगात्कादाचित्कमिदममूल्यरत्नप्रायं मानुषं जन्माऽधिगतमस्ति । अतिदुर्लभमिदमधिगत्य पुण्यवन्तो जनाः सुकृतार्जनेनैव तत्सफलयन्ति । यतो हि सञ्चितो धर्म एव जीवानिह जन्मनि सुखिनः करोति, परत्र मोक्षसुखञ्चाऽनुभावयति । अतो धर्मे सवैरेव प्रमादं विहाय वर्तितव्यम् ||११|| मनुज जनम पामी आलसे जे गमे छे, शशिनृपति परे ते शोचनाथी भमे छे । दुलह दश कथा ज्यूं मानुखो जन्म ए छे, जिनधरम विशेष जोडतां सार्थ ते छे
॥१२॥ किञ्च ये जीवाईदृशमधिगतं मनुष्यत्वं प्रमादवशाद्विफलयन्ति, धर्मं हित्वा पापानि कुर्वन्ति । ते शशिप्रभराजवत्पश्चात्तापं कुर्वन्तः संसाराऽपारकाननमध्य एव बहुशो भ्राम्यन्ति, कदापि तस्य संसारस्य परम्पारमधिगन्तुं नार्हन्ति । किञ्चैतन्मनुष्यत्वं दश दृष्टान्तश्रवणात्प्राणिनामतिदुर्लभमस्ति । तथापि ये प्राणिनो वीतरागाऽऽर्हतप्ररूपितशुद्धजैनधर्म यथावत् पालयन्ति, तेषामेव विशुद्धो धर्मो भवकान्तारोल्लङ्घने सार्थवाहतुल्यो भवति ||१२||
60