________________
सूक्तमुक्तावली ९-प्रमादवशदुर्गतिपतनोपरि शशिप्रभराजस्य
कथानकम्तथाहि-इहैव भरतक्षेत्रे श्रावस्तिका नाम महती नगर्यस्ति । तत्र सुरप्रभनामा राजास्ति । तदीयो भ्राता कनीयान् शशिप्रभो युवराजपदं भजते । तत्रैकदाधर्मघोषसूरिः कतिपयमुनिगणैः सहोद्याने समायातः । तदा झटिति वनपालः साधुसमागमनवर्धापनं राज्ञे ददौ । तदा हृष्टो राजा तस्मै यथेष्टं तुष्टिदानं दत्तवान् ।
ततो लघुबन्धुना सह महता राजकीयेनाऽऽडम्बरेण राजा गुरुवन्दनार्थं तस्मिन्नुद्याने यत्र गुरवस्तस्थुस्तत्राऽऽगतः । गुरून् विधिवन्नमस्कृत्य यथोचितस्थाने सर्वे लोका उपाविशन् । गुरवो हि भवभयहरी धर्मदेशनां ददुः। गुरुमुखाद्धर्ममाकर्ण्य राज्ञः प्रतिबोधो जातः ।
अथ देशनान्ते गृहाऽऽगतो राजा संसारममुमसारं मन्यमानः सातविषयवैराग्यस्तदैव शशिप्रभाभिधं कनिष्ठबन्धुं जगाद- हे भ्रातः ! इदं राज्यं गृहाण | यदिदं जनान् महाघोरनरके पातयति । ममेदानीमपारसंसारसागरतरी दीक्षैव रोचते । अलं मे राज्यादिना । इत्याकर्ण्य शशिप्रभस्तमेवमगदत्- हे राजन् ! कोऽयमकाण्डे प्रचण्डचित्तभ्रमो जातोऽस्ति । यदेवमकाले ब्रूषे । नेदानीं तवेदं यौवने वयसि वक्तुमपि युज्यते । यदि संसारादुद्विग्नोऽसि तर्हि समागते चरमे वयसि त्वया दीक्षा ग्राह्या, नेदानीमित्येव मे श्रेयस्करं प्रतिभाति । परं स्वमनसि सुविचार्य यत्करणीयं तत्करोतु । ततो वक्ति राजा-हे भ्रातः ! नाऽहं भ्रान्तोऽस्मि, तवैव मतिर्विभ्रान्ता दृश्यते, यत्त्वं
61