________________
सूक्तमुक्तावली
|
ततोऽभयकुमारः सर्वं राज्ञे व्यजिज्ञपत् । ततो राजा नगरे पटहवादनमकरोत् । यथा-भो लोका! भवतां यानि यानि चोरितान्यभूवन् तानि तान्यत्राऽऽगत्य परिचीय च गृह्णन्तु इति । अथ पटहवादनेन तत्स्वरूपं विज्ञाय हृष्टाः पौराः सर्वेऽपि तत्रागत्य स्वस्वधनानि समुपलक्ष्य जगृहुः । नगरे चौरोपद्रवोऽपि शान्तो यातः । स चौरोऽप्यभयकुमारसङ्गत्या शुद्धश्रावकोऽभवत् । ततो द्वादशव्रतधारकः स धर्मध्यानादिकं यावज्जीवं कुर्वन्नन्ते चाऽऽयुषि परिपूर्णे शुभध्यानेन मृत्वा देवगतिं प्राप । 1
अस्याः कथायाः सारतया लोकैरयमवश्यमेव सारो ग्राह्यः, यथा नीचजातीयः परमस्तेनः, प्रभूपदिष्टामेकामेव गाथां कुभावतः सञ्जग्राह । तथापि तस्य महोपकारो जातः । यच्चोरयन्नपि कदापि I केनापि स न गृहीतः । सत्सङ्गतिः प्राप्ता, अलभ्यञ्जैनधर्ममाप्तवान् । प्रान्ते चैहिकं पारलौकिकञ्च सुखमाप । येऽतः शुद्धभावेन भगवद्वाणीं शृण्वन्ति, तथा ज्ञानमर्जयन्ति तेऽवश्यमेवात्र लोके महत्तरां सुखसम्पत्तिमधिगच्छन्ति, परत्र च स्वर्गापवर्गोद्भूतां दिव्यां सम्पदमाप्नुवन्ति । अतोऽवश्यमेव ज्ञानोपार्जने लोकैः प्रयतितव्यम् ।
1. अन्यकथायां चारित्रं गृहीतम्, इति वर्णनमपि अस्ति ।
57