________________
सूक्तमुक्तावली मत्सदृशो दुराचारी तु कदापि तादृशेन महता जनेन सह सङ्गतिं लब्धं नाऽर्हति । मम तु भाग्ययोगात् सर्वमपि जातम् ।।
किञ्च हे स्वामिन् ! यथैव मे पुराकृतसुकृतयोगाद्भगवन्मुखारविन्दतस्तादृशोपदेशो यातः, तथैव तव संयोगोऽपि । ईदृशं सुन्दरमवसरमधिगम्य पुनरीदृक्कर्म कर्तुं नैव वाञ्छामि । हे स्वामिन् ! त्वयाऽपि मम निग्रहाय महानुपायः प्रपञ्चितः, परं भगवदुपदेशलब्धा गाथैव सेदानीं त्वद्रचितजालतो माममोचयत् ।
अत्रान्तरे कुमारेण पुनः पृष्ट: - किं भोः ! सा गाथा त्वया भावतः शिक्षिता उताभावतः ?| सोऽवक्- हे प्रभो ! मम तद्ग्रहणे मनागपि भावो नासीत् । अहं तु समवसरणमध्यतः पलायमानो भवितव्ययोगात्तां प्रभुवदनसुधाकरनिःस्यन्दितां सुधामयीङ्गाथामनिच्छन्नपि श्रोत्राभ्यामपिबम् । तन्माहात्म्यादेव मम सर्वे मनोरथाः सफलीभूताः ।
ततस्तमेवं कुमारोजगाद-हे भ्रातः! पश्य कीदृशंधर्ममाहात्म्यमिति । यत्ते कुभावतोऽधीतमपि ज्ञानं महदुपकारि जातम् । तर्हि भावतः शिक्षितं ज्ञानं कथङ्कारं लोकान्नोपकुर्वीत । ततः सोऽवक्- हे पुरुषरत्न! अत्रापि कः सन्देहः । किञ्च-"महतां सङ्गतिकरणाज्जनानां कुमतिर्विलयं याति तोयस्थं लवणमिव । सद्बुद्धिचोदेति' तथैव ममेदानीमतिक्रूरकर्म-व्यसनिनोऽपि त्वत्सङ्गत्या सद्बुद्धिरुदपद्यत । अतो हे स्वामिन् ! अद्यप्रभृति तथा न कर्तुमिच्छामि । तथा पौराणां यानि यानि वस्तूनि मयाऽपहृतानि तेभ्यः सर्वेभ्यस्तानि समस्तानि मत्तस्त्वं प्रदापय | येन पौराः सुखिनो भवेयुः ।
56