________________
सूक्तमुक्तावली समस्ता अपि महान्तो जनास्तस्य परिचिता आसन् । निजया चातुर्यकलयाऽखिलानपि महतो जनान् स निजमित्राण्यकरोत् । रात्रौ च स क्रमशस्तन्नगरवासिनां सर्वेषां सारभूतानि धनादीनि चोरयित्वा सकलानपि निर्धनानकरोत् । परं कदापि कोऽपि तं नैव जग्राह।
ततश्च सर्वे महाजना मिलित्वा राजान्तिकङ्गत्वा विज्ञपयामासुः । स्वामिन् ! सर्वे वयं चौरेण निर्धनीकृताः । अधुनापि यदि चौरनिग्रहो न स्यात्तर्हि वयं केऽपि नाऽत्र स्थास्यामः । वयञ्च महाकष्टे पतिताः स्मः | सत्वरं तन्निग्रहोपायं कुरुष्व | नो चेदस्माकं धनभवनादिकं सर्वमपि गृहाण | अस्मभ्यमन्यत्र गन्तुमाज्ञां देहि । इत्यादि तदुक्तमाकर्ण्य चौरनिग्रहार्थं स राजा ताम्बूल-वीटिकाप्रदानपुरस्सरं नगरे पटहं वादयामास- "यः कोपि चौरं ग्रहीष्यति तस्मै यथेष्टं पारितोषिकम्प्रदास्यामीति' वाचितञ्च | परं कोऽपि तन्निग्रहाय ताम्बूलवीटिकां न जग्राह । तदा श्रीअभयकुमार एव तन्निग्रहार्थं तां वीटिकामगृहीत् । सकलजनसमक्षमुक्तचाहं हि सप्ताहाभ्यन्तरे तञ्चौरमवश्यमेव निग्रहीष्यामि । तत्प्रतिज्ञामाकर्ण्य सर्वे तदार्ता लोकाः स्वस्वसद्मनि गत्वा कार्यमारेभिरे ।
इतश्च महामतिशाली, चतुर्बुद्धिपाली, चतुर्दशविद्यानिष्णातः, द्विसप्ततिकलाकलितः, महासाहसिकः, धीरशिरोमणिधर्मध्वजः श्रीमानभयकुमारोऽपि त्रिपथचतुष्पथादिसकलस्थानेषु तन्निग्रहार्थं बभ्राम । परं कुत्रापि चौरशुद्धिं नाऽधिगतवान् ।
एतत्स्वरूपं विदित्वा स चौर एकां पत्रिकामभयकुमाराय
50
-