SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली चउरंगुलेण भूमिं न छिवंति सुरा जिणा बिंति ॥१॥ ` एवमस्या अर्थः- हे भव्याः ! देवानामेतानि लक्षणानि जानीत । तेषां नयनयोर्निमेषोन्मेषौ न भवतः । तथा तेषां मनोवाञ्छितं कार्यं सदैव सिध्यति । तैर्धृताः कुसुमस्रजो म्लाना न भवन्ति । देवा हि पृथिवीस्पृशो न भवन्ति । किन्तु धरातश्चतुरङ्गुलोपर्येव ते तिष्ठन्ति । सर्वसुखर्द्धयादिना मनुष्येभ्योऽधिका वर्तन्ते । I इत्थं देवान् वर्णयन् प्रभुरासीत् । तत्रावसरे कस्यापि सद्मनश्चौर्यं कृत्वा त्वरया समागच्छन् स रौहिणेयः समवसरणमध्यतः पलायमानः साधूनालोक्य मातुः शिक्षणं संस्मृत्य कर्णौ पिधायाऽतित्वरया धावितुं लग्नः । परं भवितव्यतायोगात्तस्य चरणः कण्टकेन विद्धस्तेन बहुदुः खीभूत्वाऽग्रे चलितुं यदा नाशक्नोत्तदा तत्रैवोपविश्य यावत्कण्टकं निष्काशयन्नासीत्, तावता देवताधिकारविषयीमिमां गाथामयीं प्रभोर्देशनां श्रुतवान् । बुद्धितैक्ष्ण्यादेकवारश्रवणेनैव तेन सा गाथा मुखपाठीकृता । यतो हि पुरुषेषु श्रेष्ठानां द्वात्रिंशल्लक्षणानि भवन्ति । चौरास्तु षट्त्रिंशल्लक्षणलक्षिता जायन्ते । अतः स ताङ्गाथामविलम्बेनैवाऽभ्यस्तवान् । तां विस्मर्तुं कृतप्रयत्नोऽपि न विसस्मार । अथ कण्टकं निष्काश्य निजालयं द्रुतमागत्य मात्रा मिलितश्चौर्यानीतं धनमपि तस्यै समर्पितवान् । इत्थं मातुरुपदेशात्क्रमेण स चौर्यकर्मणि महानैपुण्यं गतवान् । दिने च महार्हवस्त्राऽऽभरणादिना मण्डितात्मा महाजनैः सङ्गतिं व्यधत्त । महेभ्यानामापणेष्वपि गत्वा तैः सह परिचयं कुर्वाणो रोहिसेति नाम्ना लोकेषु प्रसिद्धोऽभूत् । ततो महताडम्बरेण महाजनवेषं विधाय राजसभायामपि प्रवेष्टुं लग्नः । 49
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy