________________
सूक्तमुक्तावली ७-अथ ज्ञानोपरि रोहिणीयचौरस्य कथानकम्
तथाहि-इहैव भरतक्षेत्रे राजगृहनगरे श्रेणिको नाम राजा राज्यं शास्ति । तदीयो महामतिमान् निजपुत्रोऽभयकुमार एव प्रधानोऽस्ति । तस्मिन्नेव नगरे कस्यचित् स्तेनस्य रोहिणीयनामा पुत्रो बभूव । जननान्तरमेव कश्चिन्निमित्तज्ञस्तमालोक्य तस्य मातरमेवमुक्तवान्-असौ ते शिशुश्चारित्रं पालयिष्यति, संसार त्यक्ष्यति तत्र कोऽपि सन्देहो नाऽस्ति ।
ततःप्रमृत्येवं मात्रा शिक्षितः- हे पुत्र ! साधुसविधे कदापि त्वया न गन्तव्यम्, न तत्सन्निधौ स्थातव्यम् । न तेषां वचनादिकं श्रोतव्यम् । यतस्ते बालकान् प्रलोभ्य हठाद् गृह्णन्ति । सोऽपि शिशुर्मातुः शिक्षामवधारितवान् । ततःप्रभृति तथैव कर्तुं लग्नः । किञ्च चौरकुले स एव पुत्रः प्रशस्यो भवति यो हि स्तेनकर्मणि निपुणो लोकानां धनानि चोरयन कुटुम्बं पुष्णाति । अतो नैमित्तिकोक्तविपरीतलक्षणलक्षितं पुत्रं बाल्यावस्थायामेव मातापितरौ तथा शिशिक्षाते ।
अथैकदा श्रीमहावीरस्वामी चतुर्दशसहस्रमुनिभिस्तथा षट्त्रिंशत्सहस्रसाध्वीभिः सह तत्र राजगृहनगरे समवससार | तस्य समवसरणं चतुर्निकायदेवैः पृथिवीतः सार्धकोशद्वयोन्नतं विहितम् । तन्मध्ये देवतानाङ्कोटिधर्मोपदेशश्रवणेप्सया समागत्य तस्थौ । तथा भव्याशयैर्मनुजादिभिरपि सा परिषद् विभूषिताऽऽसीत् । तत्र द्वादशविधपरिषत्सु शोभिते समवसरणे श्रीमहावीरप्रभुर्धर्मोपदेशं कुर्वन्नवसरप्राप्तदेवाऽधिकारमित्थं वर्णयन्नासीत् । यथाअणिमिसनयाणा मणकज्ज-साहणा पुप्फदामअमिलाण ।
48