SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली कायोत्सर्ग एव स्थातव्यमिति निश्चित्य यत्र स्थले स मुनिः कायोत्सर्ग कृतवान्, तत्रैव गत्वा कायोत्सर्गे निश्चलमनास्तस्थौ । तत्रावसरे तच्छरीरं सुषमाकन्याशिरच्छेदोद्भूतशोणिते लिप्तमासीत् । तेन लोहितगन्धेन वज्रतुण्डाः कीटिकाश्चटिताः, तास्तदङ्गानि क्रमशचालनीसन्निभानि कृतवन्त्यः । अत्रार्थे चैषा गाथाधीरो चिलाइपुत्तो, मुइंगलिआहि चालिणि व्य कओ। जो तहवि खज्जमाणो, पडियन्नो उत्तमं अटुं ॥१॥ ____ व्याख्या-धीरसत्त्वसंपन्नश्चिलातीपुत्रः (मुइंगलिआहि) कीटिकाभिर्भक्ष्यमाणश्चालनीव कृतस्तथापि खाद्यमानः प्रतिपन्न उत्तममर्थम्, शुभपरिणामापरित्यागादिति हृदयम् । अर्थात् कायोत्सर्ग- स्थितस्य चिलातीपुत्रस्य देहः कीटिकाभिश्चालनीवत्सहस्रशच्छिद्रः कृतस्तथापि तदङ्गं विह्वलतां नाऽऽपत् । मनोऽपि नैव क्षुब्धं, गिरिरिव निश्चलतामेव दधौ । ध्यानं न जहौ । तथा कुर्वन्नेव सद्गतियानलक्षणेन शुभध्यानेन मृत्वा देवगतिं लेभे। एतेन दृष्टान्तेन जनरेतदेव सारतया ग्राह्यम्, यत्किल-स्वल्पेनापि तत्त्वज्ञानेन शुद्धश्रद्धावाँश्चिलातीपुत्रो महाक्रूरकर्मापि देवत्वमधिगतवानिति । किञ्च तत्त्वज्ञानं शुद्धभावेन समाराधयतां मोक्षोऽपि करगतप्रायो भवति । अतो हे लोकाः ! यदि यूयं भवाम्बुधिं तितीर्षथ तर्हि परिपूर्ण ज्ञानं लभध्वं । येन तत्त्वज्ञानमासाद्य दुस्तरम, संसारसागरमक्लेशेन तरिष्यथ ।।
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy