________________
सूक्तमुक्तावली स्थितं साधुमेकमपश्यत् । तस्मिन् काले स एकस्मिन्करे क्षरद्रक्तधारं मौलिमपरस्मिन् शोणिताक्तं कृपाणं दधान आसीत् । परमागामिशुभभावोदयात्स चौरनायको दुष्टकर्मापि तम्मुनिमेवमप्राक्षीत्भो मुने ! मां धर्म वद । तदा स मुनिरेवमचिन्तयत्- अहो! कोऽप्येष शुभपरिणामको जीवोऽस्ति । यत आत्मकल्याणार्थं धर्मं पृच्छति । इति विचिन्त्य स मुनिस्तस्मै 'उपशमविवेकसंवरा धर्माः सन्ति इत्युपदेशं दत्त्वा गगनमार्गेणाचलत् ।
तत्रावसरे तस्य तथाविधञ्चमत्कारं वीक्ष्य मनसि दध्यौअहो! कोऽप्यसौ चमत्कारी महाविद्वान् दृश्यते । यदयमाकाशमार्गेण गच्छति, इतरेतु पृथिव्यामेव चलन्ति । परमनेन ये"उपशमविवेकसंवरा धर्मा दर्शिता इति' तदर्थो मया विचारणीय, इति विचारयन् स चौरनायक उपशम इत्यस्य क्रोधो जेतव्यः-यथा क्रोधोपशान्तिर्भवेत्तथा विधेय इति ज्ञातवान् । ततश्च स तदानीमेव मनसि पश्चात्तापमकरोत्। अहो ! क्रोधवशादेवाऽहमीदृशमनाचारं स्त्रीघातात्मकमकार्षम् । यदि मे क्रोधो नाभविष्यत्तर्हि नरकगतिदायिनीयं स्त्रीहत्या कदापि मम नैवाभविष्यत् । अतोऽद्यप्रभृति क्रोधो नैव कर्तव्य इति निश्चितवान् ।
तथा विवेकोऽपि मम नास्ति, विवेकहीनो जनः पशुरुच्यते । मयापि पशुवदेव तत्कृतम् । इत्येवं विचारयता तेन चौरेणाऽऽश्रवद्वारोपरोधः, संवरशब्दस्यार्थ इत्यबोधि-अतो मया यावत् संवरो न विहितस्तावन्मे सर्व विफलमेवास्ति ।
अथैवं विचार्य स चिलातीपुत्रः करधृतसुषमामस्तकं तथा शोणितार्द्र कृपाणं भूमौ तत्याज । यावन्मे कृतकर्मक्षयो न स्यात्तावन्मया
46 -