________________
सूक्तमुक्तावली
भवद्भिरेव ग्राह्यम्, या च तस्य सुषमाऽभिधाना कन्यास्ति, तामानीय मह्यमेव भवद्भिर्दातव्या । इति निश्चित्य तैश्चौरैः सह चिलातीपुत्रो राजगृहे तस्यालये समागत्य खात्रं विधायान्तः प्रविश्य चौरा यथेष्टानि महार्हाणि रत्नादिधनानि ग्रन्थिं बद्ध्वा बहिर्निर्जग्मुः । सुषमामुत्पाट्य चिलातीपुत्रोऽपि बहिर्निरगात् । ततस्तत्कालमेव लोका जागृताचौरचौर इति बुम्बारवञ्चक्रुः ।
ततस्तेषां पृष्ठे लोकानां कोलाहलमाकर्ण्य कोष्ठपालो यावत्तत्रागतस्तावच्चौरा नेशुः । इतस्ततो विलोक्य ततः कोष्ठपालेन निजैश्चतुर्भिः पुत्रैः सह श्रेष्ठी चौरानुपदं तस्यामेव दिशि तुरङ्गारूढोऽधावत् । पृष्ठे समागच्छतस्तान् विलोक्य ते चौरा मार्ग एव तानि धनानि त्यक्त्वा कुत्रापि नेशुः । चिलातीपुत्रस्तु मार्गं हित्वोत्पथेन चचाल । तद्धनानि मार्गे पतितानि सर्वाण्यादाय कोष्ठपालस्ततः परावर्तत । श्रेष्ठी तत्पुत्राश्च ततोऽग्रे स्तेनानुपदं विलोकयन्तश्चेलुः । I
अथ पश्चादागच्छतस्तानालोक्य स तस्कराधीश एवमचिन्तयत् - अहो ! एषा सुषमा मम प्राणादपि प्रेयसी वर्तते, एते च मां ग्रहीतुं त्वरया समागच्छन्ति, किङ्करोमि ? एनामपि कथं त्यजामि ? यदि न त्यजामि, तर्हि मम जीवितमपि यास्यति, एवं ध्यायन् स समीपागतांस्तानालोक्य कोशात् खड्गमाकृष्य तस्याः शिरश्चिच्छेद । तस्याः कबन्धं तत्रैवाऽत्याक्षीत् । केवलं स्रवद्रक्तधारं तस्या मस्तकं करे कृत्वाऽग्रे चचाल । तेऽपि तत्रागत्य तां पुत्रीं तथावस्थामालोक्य भृशं शोचन्तस्ततः परावर्तमाना गृहमाययुः ।
|
अथाऽग्रे गच्छन् स चिलातीपुत्रः कस्यचन वृक्षस्याऽधः कायोत्सर्गे
45