________________
सूक्तमुक्तावली मुनेः शिष्योऽभवत् । परन्तु ब्राह्मणतया स दीक्षितोऽपि मलादिपरीषहं सोद्न शक्नुयात् । अपितु तत्रघृणामकरोत् । लोकसमक्षमेवमवोचच्चअहो ! कीदृशो धर्मः ? यत्र स्नानादिशुद्धिरपि न विधीयते । इत्थञ्चारित्रम्परिपाल्य स्वायुः सम्पूर्णीकृत्य च मृत्वा स देवो जातः |
ततश्च्युत्वा पूर्वजन्मनि मलादिपरीषहघृणाकरणोदिताशुभकर्मावशेषतया राजगृहनगरेधनावहश्रेष्ठिनो गृहे चिलातीनाम्नी काचन तस्य दासी, तस्याः कुक्षौ पुत्रत्वेनावततार | तस्य नाम लोकैश्चिलातीपुत्र इति धृतम् । या चैतस्य ब्राह्मण-जन्मनि भार्याऽऽसीत्, सा च स्वभर्तारं वशीकर्तुमनेकमुपायमकरोत् । तं मृतमाकर्ण्य वैराग्योदयवशात्सापि दीक्षिता सती चारित्रं परिपालयन्ती मृत्वा देवी जाता।
ततश्च्युत्वा तत्रैव नगरे तस्यैव धनावहश्रेष्ठिनो भार्याकुक्षौ पुत्री जाता। सा महासुन्दरी चासीत् । ताञ्च बालिकां चिलातीपुत्रः क्रीडयामास । क्रमशः सा कन्या यौवनमाप । पूर्वभवसंबन्धवशात्तस्यां चिलातीपुत्रस्य महाननुरागो जातः । तस्या अपि तस्मिंस्तथैव रागो बभूव । ततो रहसि तया सह चिलातीपुत्रः प्रत्यहं विषयसुखं भोक्तुं लग्रः ।
अथ तयोस्तमनाचारं विदित्वा श्रेष्ठिना चिलातीपुत्रो गेहान्निष्काशितः । ततः स चिलातीपुत्रश्चौरसमाजे समागत्य तैः सह मैत्री विधाय चौर्यकरणे निपुणो जातः । कियत्कालानन्तरं तं साहसिकं महाधीरं ज्ञात्वा सर्वे ते चौराः स्वनायकं चक्रुः ।
अथैकदा स चौरनायकश्चौरानेवमुवाच अस्यां रात्रौ राजगृहनगरे धनाढ्यस्यधनावहश्रेष्ठिनो गृहे चौर्याय गन्तव्यम् । तत्र धनादिकं
44