SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली अपि तु स्यादेव, यदुक्तम् - गाथायाम्“सिक्खियंव्यं मणूसेणं, अवि जारिसतारिसं । पेच्छ मुद्धसिलोगेहिं, जीवियं परिरक्खियं ॥१॥" अयमस्या आशयः- पामरोक्तमपि यादृशं तादृशं शिक्षणीयम् । शिक्षितं हि किमपि वृथा न जायते । यस्मात्तादृशशिक्षितगाथाप्रसादेनैव यवराजर्षिर्जीवितोऽभूत् । हे राजर्षे ! ज्ञानमाहात्म्यं कीदृशमिति पश्य, यतस्त्वं ग्राम्योक्तवचनबलादेव जीवन्नत्राऽऽगतोऽसि, परानप्युपचकर्थ । विशिष्टविद्यावाँस्तु स्वस्य परस्य चाधिकमुपकरोति । तत्र किमाश्चर्यं इत्येवं गुरुणा भणितो यवराजर्षिर्गुरूक्तं सर्वमनुमोदयञ्चिरञ्चारित्रम्परिपाल्य स्वायुःक्षये मृत्वा वैमानिको देवोऽभूत् । एतेन दृष्टान्तेन भविकजनैरेतज्ज्ञानमवश्यमेव ग्राह्यम् । यर्हि अज्ञोक्तेन पद्येन लोकोपकरणमभूत्, तर्हि येनाधिकं ज्ञानमर्जितमस्ति, स स्वकीयम्परकीयञ्च किलैहिकमामुष्मिकँश्च श्रेयो विधातुमर्हति । इति हेतोः सर्वैरेव भव्यैर्ज्ञानार्जने यतितव्यम् । ज्ञानस्यैकेनापि चरणेन लाभोऽभूत् । | ६- तत्रोपशमाद्युपरि चिलातीपुत्रस्य दृष्टान्तःयथा-भवान्तरे चिलातीपुत्रो ब्राह्मणो विद्वानभिमानी जात्यहङ्कारवांश्चासीत् । तेनैकदा राजसभायामीदृशी प्रतिज्ञाऽकारि, यो मां शास्त्रवादे जेष्यति तस्याहं शिष्यो भविष्यामीति । अथान्यदा कश्चिन्महाविद्वान् जैनमुनिस्तत्रागतः । स राजसभाङ्गत्वा तेन सह शास्त्रार्थं कृत्वा पर्यन्ते च तम्पराजितवान् । ततः स प्रतिज्ञानुसारात्तस्य 43
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy