________________
सूक्तमुक्तावली तं यवराजमुनिं ववन्दे । तत्रावसरे गुरुणा पृष्टः। कोऽसि ? राजा वक्ति- स्वामिन् ! तवैव कुपुत्रोऽस्मि | पुनरूचे गुरुः - किमुच्यते 'कुपुत्र' इति । ततो राज्ञा प्रव्रजिते पितरि यथाजातं तदादितः सर्वमप्यावेदितम् । श्रुत्वापि तद् गुरुणा मौनमेवाश्रितम् । राजाऽवक्हे स्वामिन्! त्वं धन्योऽसि । त्वं सर्वज्ञतामधिगतोऽसि । यस्त्वमधुना मम मानसीञ्चिन्तामशेषामपाकरोत्। तव पुण्यादेव सर्वसिद्धिः सेत्स्यतीत्यादिमिष्टस्निग्धवचसा संस्तुत्य नमस्कृत्य च स राजा निजावासमाययौ ।
अथ जाते प्रभाते सैन्यैः सह तत्र गत्वा तस्य दुष्टप्रधानस्य गृहमवरोध्य तदन्तर्भूतलगृहान्निजभगिनीमानीतवान् । तस्य गृहे यान्युपकरणान्यासन् तानि सर्वाणि सगृहाणि तदीयग्रामादिकानि च निजायत्तान्यकरोत् । तस्य महानर्थकर्तुश्च शूलिकां दातुमाज्ञप्तम् । तच्छ्रुत्वा दयालुर्यवमुनिर्जीवन्तं तं मोचयामास।।
अथ यवराजर्षिस्ततो विहृत्य कियद्भिर्दिनैः स्वकीयगुर्वन्तिकमाययौ । तत्रागत्य यवराजर्षिर्विधिवद् गुरुं ववन्दे । गुरुर्वक्तिराजर्षे ! संसारिणो मिलित्वा सुखेन समागतोऽसि । साधुर्वक्तिस्वामिन् ! तवानुकम्पातः सर्वं सिद्धम् । पुनर्गुरुणा पृष्टः । राजर्षे ! तेभ्य उपदेशः कीदृशो दत्तः । ततो राजर्षिर्वक्ति- हे गुरो ! मया मार्गमध्ये गाथात्रयमुपलब्धं तदेवोपदिष्टम् । परमर्थस्तासां क इत्यह न वेद्मि | यथाश्रुतं तथोपदिष्टम् । तेषान्तु तामिर्गाथाभिर्महान् लाभो जातः । तत्रावसरे गुरुणोक्तम् - हे राजर्षे ! यदि तादृशेनाऽर्थस्तेषां सिद्धस्तर्हि यो हि तत्त्वमुपदिशति, तेन लोकोपकृतिः कथं न स्यात् ।
42