SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली ततो दुष्टेन मन्त्रिणा राज्ञो मनसि साधुविषये तथा महती घृणाऽकारि, यथा स राजा निजपितरं तं साधुं हन्तुमियेष । तत्रावसरे दुष्टधीः स मन्त्री नितरां तुतोष । ततः स राजा निशि कृष्णकम्बलमुपरि निधाय खड्गं गृहीत्वा तं साधुं निहन्तुं निर्ययौ । मार्गे गच्छन् राजा मनस्येवमवधारितवान् - यद्यसौ ज्ञानी मम मानसीं शङ्कामपनेष्यति तर्हि तं न हनिष्यामि, इति निश्चित्य तत्समीपे कुत्राऽप्यलक्षितस्तस्थौ । इतश्च स्वासने समुपविष्टो यवराजर्षिः प्रथमं क्षेत्रस्वामिनोक्ताङ्गाथामपाठीत् । तामाकर्ण्य राजैवमबुध्यत - अहो ! साधुर्महाज्ञानवानस्ति, येनाऽमुना ममाऽऽगमनं ज्ञातम् । परमेवमेव यद्येष मद्भगिन्या विषयेऽप्यपृष्टः सर्वङ्कथयिष्यति तर्ह्येतस्य परिपूर्णज्ञानित्वे निःसंदेहो ममात्मा भविष्यतीत्येवं विचारयन् यावदासीत्, तावन्मुनिर्बालकोक्तां मोईरमणविषयिकां द्वितीयाङ्गाथामपाठीत् । तां श्रुत्वा सर्वथा त्रिकालज्ञानवानयमिति निश्चितवान् राजा । यतो हि-तया गाथया राजैवमबुध्यत यथा मम भगिन्येतस्मिन्नेव नगरे कुत्रापि गुप्तस्थले तिष्ठतीति । परमेष मुनिस्तत्स्थानादिकमपि यदि प्रकटयेत्तर्हि कृतकृत्यतां प्राप्नुयामिति चिन्तयन् यावदासीद्राजा तावन्मुनिः कुम्भकारपठितां तृतीयाङ्गाथाम्पपाठ तामाकर्ण्य राज्ञा निश्चितम् - अहो ! दुष्टो दीर्घपृष्ठप्रधान एव मत्स्वसारमपजह्रे । स एव निजावासे गुप्तस्थितां तामकरोत् । महाननर्थो जातः । तदानीमेव प्रकटीभूय गुरोरन्तिकमुपेत्य भक्त्या निजपितरं 41
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy