________________
सूक्तमुक्तावली ददौ, यथा-हे प्रधान ! अभयकुमार! त्वमिदानीं मां ग्रहीतुं भृशं यतसे, परं मम निग्रहणे कस्यापि शक्ति व दृश्यते । त्वं चतुर्धा सुमतिं धत्से, मम तु पञ्चधा बुद्धिरस्ति । कदापि केनाऽप्यगृहीतो यदि सप्तमे दिवसे त्वामहं न मिलेयं तर्हि चौरो न स्याम् । इति सेवकार्पितां मुद्रितां तत्पत्रिकामुद्घाट्य पठित्वा स कुमारो महदाश्चर्यमध्यगच्छत् । निजचेतसि दध्यौ च-अहो! मतिमानसौ चौरः । येन ममाशयं ज्ञातम् पत्रञ्च दत्तम् । अतश्चौरशिरोमणिः कोऽपि प्रशस्यतमः प्रतीयते ।
अथाऽभयकुमारोऽपि षड्मिर्दिनैश्चौरनिग्रहाय कृतप्रयत्नस्य विफलतां वीक्ष्य सप्तमे दिने तेन चिन्तितम् - नूनमद्य स चौरः समेष्यति। यतस्तेन पुरैवावधिदत्तोऽस्ति । ततः स कुमारः सर्वाण्युपकरणानि समादाय पौषधञ्जग्राह । ततः पौषधशालामागत्य दर्भासने समासीनः स्वाध्यायध्यानादिकं कर्तुं लग्नः । तत्रत्यसेवकम्प्रत्युक्तञ्च - भोः सेवक ! यदि कोऽपि मां मिलितुमत्रागच्छेत् स न रोद्धव्यः ।
इतः सोऽपि रोहिणीयाख्यतस्करः सप्तमं दिनं प्रतीक्षमाणः सप्तमे दिवसे दिव्यवसनाऽऽभरणादिना विहिताऽपूर्वशोभस्तद्योग्यं प्राभृतमादाय कुमारमिलनाय चचाल | तत्स्थाने समागत्य स्वकीयनियतस्थाने प्रधानमपश्यन भृशं खेदमावहन् दध्यौ- यद्यहं प्रधानं न मिलिष्यामि, तर्हि प्रतिज्ञा मे विफलीभविष्यति। अतोऽद्य येन केनोपायेन स द्रष्टव्य, इतिध्यात्वा तत्सेवकमपृच्छत्- भोः ! कुत्राऽस्ति प्रधानः ? तेनोक्तम् - सोऽद्य पौषधं लात्वा पौषधालये धर्मध्याने तिष्ठति।
अथस चौरस्तत्राऽऽगत्य कुमारं नमस्कृत्य तद्योग्यं प्राभृतीकृत्य तदभिमुखमुपाविशत्। तमागतमालोकयन् कुमारो मनसि चिन्तयति
- 51