SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली ५- साधारण - गाथाबोधोपरि यवराजर्षेः कथानकम् यथा वसन्तपुरनामनगरे यवनामा राजा बभूव । तस्य गर्धभीलाऽभिधानः पुत्र आसीत् । अनुलिकाख्या मञ्जुला पुत्री तथा दीर्घपृष्ठनामा मन्त्री तस्यासीत् । अथैकदा समागतं वार्धक्यमालोक्य भवोद्विग्नः पुत्राय राज्यं दत्त्वा चारित्रमग्रहीत् । ततः साधून् पठतो विलोक्य सोऽपि पठितुं लग्नः । परं तस्याक्षरमात्रमपि नाऽऽयातम् । तेन तस्य मनसि महान् खेदोऽभवत् । तं खिन्नमालोक्य गुरुरूचे - भो राजर्षेः ! किं शोचसि ? त्वया भवान्तरे ज्ञानं नाऽर्जितमतोऽस्मिन भवे तव ज्ञानं नाऽऽयाति । त्वया तदर्थं नैव शोचनीयम । त्वं केवलं चारित्रमुपार्जय संयमादिव्रतादौ सावधानो भव । ततो गुरुणा प्रतिबोधितो यवराजर्षिस्तथैव कर्तुं लग्नः । अथैकदा तस्य यवमुनेर्निजकुटुम्बपुत्रादेर्विवन्दयिषा सञ्जाता। ततो गुरुमेवमुवाच - हे गुरो ! मम निजसंसारिसंबन्धिनो वन्दयितुमिच्छा जायते, यदि ते तत्र गमनायाऽऽज्ञा भवेत्तर्हि तत्राऽहं गच्छेयम् । तच्छ्रुत्वा गुरुणा भणितः सः - हे मुने ! तत्र गमिष्यसि चेत्तर्हि तत्र तानुपदेक्ष्यसि किम् ? यवमुनिरवक्- हे गुरो ! अहमुपदेष्टुं किमपि नैव जानामि नैव तदर्थं तत्र गन्तुमिच्छा । अहन्तु केवलं तेषां मिलनायैव जिगमिषामि । तदाकर्ण्य गुरुस्तं तत्र गन्तुमादिदेश | ततो गुर्वादिष्टो यवऋषिस्ततो निर्गतः । मार्गे च तस्य मनस्येवं विचारणा जाता । यदाऽहं तत्र यास्यामि तदा पुत्रादयः समेष्यन्ति मम 37
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy