________________
सूक्तमुक्तावली वन्दनार्थं कथयिष्यन्ति च - हे गुरो ! किमपि धर्म्ममुपदिश । तर्हि तान् प्रति किमहमुपदेक्ष्यामि । इत्थं विचिन्तयन् स मुनिः फलपुष्पादिभिः परिपूर्णमेकं यवक्षेत्रमपश्यत् । तत्क्षेत्रस्वामी च परितः परिभ्रमन् दण्डपाणिः स्वक्षेत्रं गोपयन्नासीत् । एको गर्दभश्च तत्क्षेत्रस्थयवान् भक्षयितुं तत्समीपे तस्थौ । तस्मिन्नवसरे रासभमालोक्य तेन क्षेत्रस्वामिना काचिदेका गाथा पठिता
I
आधावसी पधावसी, ममं चावि णिक्खसी । लक्खितो ते मया भायो, जवं पत्येसि गद्दहा !
॥१॥ व्याख्या - रे गर्दभ ! त्वमितस्ततः परिधावसि परितः प्रेक्षसे, क्षेत्रमध्ये प्रवेष्टुमिच्छसि यवधान्यं चरितुं प्रार्थयसीति च द्वितीयपक्षे तुं यवनामानं राजानं मारयितुं भो गर्दभनृपते ! जानामि तवाशयमहम् । इति गाथानेकधा तेन पठिता । एषा च गाथा तेन यवमुनिना श्रुता यत्नतः समभ्यस्तीकृता ।
,
|
ततोऽग्रे गच्छता तेन तामेव गाथां पठता कियद्भिर्दिनैर्वसन्तपुरस्य नगरस्य समीपे कस्मिंश्चिच्चत्वरे समागतम् । तत्र चाऽनेके बालका मोईदण्डाख्यक्रीडनं कुर्वन्तो दृष्टाः । यवराजर्षिरपि तत्रैव कियत्कालं तस्थौ । अत्रान्तरे चैको बालको मोईक्रीडनमुत्क्षिप्तवान् दण्डेन । ततस्तत् क्रीडनकमतिदूरे कुत्रापि गर्ते न्यपतत् । ततो बहुधा शोधितेऽपि तत्क्रीडनकं यदा नाऽमिलत्तदा कश्चन बालक इमां गाथामपठत्इओ गया तओ गया, मग्गिज्जंती ण दीसह । अहमेयं विजाणामि, अगडे छूढा अडोलिया
un
अस्या अर्थः-एतन्मोईक्रीडनकमस्मासु पश्यत्सु गतमिति
38