________________
सूक्तमुक्तावली भवजलनिधि तारे सर्व जे दुःख वारे, निज परहित हेते ज्ञान ते कां न धारे?
॥९॥ हे भव्या ! इह संसारे लोकैस्तनु-धन-स्वामित्वादयः सुखेन लभ्यन्ते । जीवानामेतानि सुलभानि सन्ति । परमेकं ज्ञानमतिदुष्कर-. मस्ति । सुकृतिनामेव तन्मिलति । यज्ज्ञानं जीवान् अपारभवसागरादुद्धरति । प्राणिनां त्रिविधान्यपि दुःखानि नाशयति । तथाऽहिताद्वारयति । हिते च जनान् योजयति । किञ्च-यद्योगाद्धीरा इमां त्रिलोकी पदार्थविभूतिं कराऽऽमलकमिव पश्यन्ति । इति सर्वतः श्रेष्ठं ज्ञानमवश्यमेव लौकिकपारलौकिकशिवलिप्सावद्भिरेष्टव्यम् । समाराधनीयञ्च तदेव । तदर्थं सर्वैरपि यतितव्यम् ||६|| यवऋषि त्रण गाथा बोधथी भो निवार्यो, इक पदथि चिलातीपुत्र संसार वार्यो । श्रुतथि अभय हाथे रोहिणो चोर नाये, श्रुत भणत सुज्ञानी मासतूसादि थावे । ॥१०॥
अन्यच्च-ज्ञानमाहात्म्यमेव दर्शयति- यथा इहैव लोके कश्चन यवनामा ऋषिरासीत्। स च विद्याहीनोऽभूत् । परंसाधारणगाथात्रयस्यैव बोधेन समागतां महतीमापदमनीनशत् । किञ्च चिलातीपुत्रोऽप्येकमेव पदं सम्यगवबुध्य दुस्तरमपि संसारसागरमेनमतरत् । ज्ञानबलादेव रोहिणीयाभिधो महातस्करोऽपि कृतेऽपि नानोपाये श्रीअभयकुमारग्राह्यो नाऽभूत् । तथा श्रुतज्ञान-भणनादेव मासतुषादयो महाज्ञानवन्तोऽभूवन ।।१०||
AVO
36
-