________________
सूक्तमुक्तावली . अथ नागार्जुनोऽपि सम्पादितं कोटिवेधिनो रसमयकूपिकाद्वयं ताभ्यामलक्षिते कुत्रापि गुह्यस्थाने स्थापयामास । परंतत्सर्वं कुमाराभ्यां गुप्तरीत्या दृष्टम् । गते च नागार्जुने ताभ्यां कुमाराभ्यां तत्स्थानतो निशि कुम्पिकाद्वयं गृहीत्वा स्वस्थानम्प्रतिचलितम् । मार्गेचतदधिष्ठात्र्या देव्या तौ कुमारौ तदयोग्यतया निहत्य रसभृतं कूपिकाद्वयमाददे |
यत्र स्तम्भनपुरे नागार्जुनः कान्तिपुरनगरात् पार्श्वनाथप्रभोः प्रतिमामुत्पाट्य समानीय च स्थापितवान्, तत्र च तया पद्मिन्या पारदौघमुपमर्थ रससिद्धिं कृतवान् । तदिदानी खंभातनाम्ना प्रसिद्धमस्ति । इह हि नगरे नवाङ्गवृत्तिका श्रीअभयदेवसूरिणा प्रतिष्ठापिता श्रीपार्श्वनाथप्रभोः प्रतिमा जागर्ति ।
पादलिप्ताचार्य-नागार्जुन-प्रभृतयो बहुशो विद्वांसः शालिवाहनशासन-कालीना आसन् । एतेषां महोत्तमसत्पुरुषाणामुदारचरितान्यवश्यं ज्ञातव्यानि सन्ति, परमनवसरतया ग्रन्थगौरवभिया चाऽत्र मया न दर्शितानि । जिज्ञासुभिस्तानि प्रबन्धचिन्तामणिप्रमुखग्रन्थतो वेदनीयानि । एताभ्यः कथाभ्यः सारतया यत्फलितं तदाह-ऐहिकाऽऽमुष्मिकश्रेयोऽर्थिभिर्जनैः सदैव धर्मे दाय विधेयम् । यतो हि पूर्वजन्मनि साधुदानमाहात्म्यादिह जन्मनिशालिवाहनविक्रमादे राज्यं, महती निश्चला सुकीर्तिः, पूर्णायुष्यादि महाफलमजनि । एवमितरस्यापि धर्मनिष्ठस्य तत्सर्वम्भवति भविष्यति चेति ।।
१-ज्ञानतत्व विषयेतन धन ठकुराई सर्व ए जीवने छे, पण इक दुहिलं हे ! ज्ञान संसारमा छे ।