SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली विशिष्टं सुखं ममैवास्त्विति बुद्ध्या स दैत्यो वाममार्गीय-विधिना कामपि तामसी देवीमाराध्य प्रसादयामास | सापि तदाराधनेन तस्योपरि तुतोष । ततश्च मोहनाऽऽकर्षणादिषट्कर्माणि सिद्धानि चक्रे | ततश्चैकदा स दैत्यो मन्त्रबलेन पद्मिनीञ्चन्द्रलेखामपहृत्य स्वायत्तां व्यधात् । इतश्च ताम्प्रेयसीमपश्यन् शालिवाहनो महादुःखी बभूव । तां शोधयितुं सर्वासु दिक्षु भृत्यान् समादिशत् । अथ कोपि शुद्रकनामा कोष्ठपालः कथञ्चित्तत्स्वरूपं विज्ञाय तत्र गत्वा राज्ञीञ्चन्द्रलेखां लात्वा राज्ञे समर्पयामास । अथ पादलिप्ताचार्यस्य शिष्यो नागार्जुननामाऽऽसीत् । स च कस्याश्चिन्महानद्यास्तीरे निजावासं विहितवान् । तत्र च श्रीपार्थनाथप्रभोमहाचमत्कारशालिनी प्रतिमा स्थापितवान् । प्रतिमागेच कोटिवेधिरसमुत्पादयितुं शालिवाहनस्य राज्ञः पत्नीञ्चन्द्रलेखां हृत्वा तत्राऽऽनीय कियत्यामपि रात्रौ तया पुञ्जीकृतं पारदं खलिकायां मर्दयामास | एवमनेकधा स नागार्जुनस्तया पारदमर्दनं कारयामास । कथितञ्च तस्याः, यद्येतत्स्वरूपं कस्यापि पत्यादेरग्रे कदापि वक्ष्यति तर्हि त्वां मारयिष्यामि । तद्भयेन कदापि नाऽवोचत सा | परमेकदा तत्क्लेशमसहमाना सा पद्मिनी कथाप्रसङ्गादेतत्स्वरूपं राज्ञः कथयामास । अथैकस्यां रात्रौ शयने निजप्रेयसीमनालोक्य राजा किमिति शङ्कमानः पुत्राभ्यां सह तत्रागतवान् । तां तत्र तथाकुर्वतीमालोक्य बहुशस्तमनुनीय तस्याः स्थाने निजपुत्रौ संस्थाप्य भार्यया- सह स्वस्थानमाययौ । 34 -
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy