SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली तस्मै सुधापूर्णमेकं कुम्भं रिपुसैन्यसङ्घातकरीममोघां शक्तिञ्च दत्त्वाऽदृश्यतां गतः । अथशातवाहनोऽपि नागदत्तसुधासेकप्रभावतः पुराकृतमृन्मयमनुष्यादीनि सञ्जीवयामास । ततश्च तानि सर्वाणि नानाशस्त्राऽस्त्रसहितानि मन्त्रमहिम्ना विधाय तैरेव चतुरङ्गसैन्यैः सह विक्रमीयसैन्यानि भक्तुं लग्नः । तस्मिन् युध्यमाने महान्त्यपि विक्रमसैन्यानि महात्रासमापुः । सोऽसंख्यं बलं क्षणादेव नाशयामास । ततः पलायमानः ससैन्यो विक्रमभूपतिस्तापिकोत्तरतटमागत्य तस्थौ । तत्रैवञ्चिन्तितं विक्रमार्केण - अहो कीदृशमेतस्य शौर्यम्, येन मदीयमशेषं सैन्यं भग्नीकृतम् । दैवज्ञोक्तमपि सत्यमेव प्रतिभाति । साम्प्रतमेतस्मिन्नवनीतले कोऽप्येतस्य जेता नैवास्ति, साम्प्रतमनेन सह युध्यमानोऽहं नूनं पूर्वोपार्जितामपि जयश्रियं त्यक्ष्याम्येव । अत इदानीमनेन सह सन्धिरेव श्रेयस्कर इति विचार्य तेन सह सन्धिं कृतवान् । तत्र चैवं स्थापितमुभाभ्याम् । तापिकाया नद्या उत्तरतटी विक्रमार्कराज्यसीमास्तु | तस्या दक्षिणतटी तु शालिवाहनस्य राज्यसीमेति । ततो विक्रम उज्जयिनीमागतवान् । शालिवाहनोऽपि तत्र प्रतिष्ठानपुरे समागत्य निजराजधानी स्थापितवान् । ततश्च लोकेषु शालिवाहननाम्ना प्रसिद्धोऽभवत् । ___ अथ राज्यं कुर्वाणः स शालिवाहनो राजा चन्द्रलेखां नाम्नी कस्यचन राज्ञः पुत्रीमतिरूपलावण्यवतीं पद्मिनी सकलकलावतीं युवतीं परिणीतवान्। इतश्च कश्चिदेको मायासुरनामा दैत्य आसीत्, जगति सर्वातिशयं 33
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy