________________
सूक्तमुक्तावली मागतौ । सा च तत्रैव कुम्भकारगृहे केनापि प्रकारेण दैवं विनिन्दती सगर्भा सती कालं निनाय । अथ परिपूर्णे दशमे मासे सा पुत्रं प्रासोष्ट | अथ नागदेवतेजसः प्रभावेण स बालो महातेजस्वी मनीषी महाप्रतापी समपद्यत । परं कुम्भकारलाटगृहोत्पन्नतया लोके तत्पुत्रत्वेनैव प्रख्यातिमागात् । ततस्तज्जातीयकर्मणि क्रमेण स नैपुण्यमधिगत्य नानाजातीयमृन्मयनरकुञ्जरतुरगोष्ट्ररथादिकं रममाणः स निर्मितवान् । तस्य नाम शातवाहन इति लोके पप्रथे ।
तत्र समये तत्रोज्जयिन्यां महाविक्रमी विक्रमार्को राजाऽऽसीत् । स चैकदाऽऽत्मीयं वार्धक्यमवलोक्य मनस्येवं दध्यौ - मम पश्चादिदमखण्डं राज्यमपहर्तुं कोऽप्युत्पत्स्यते क्षिताविति ? | इत्युत्पन्नविचारे राजा संसदि निपुणतमान् दैवज्ञानाहूय तानेवमपृच्छत् - भो ! भो ! दैवज्ञाः ! ममैतद्राज्यमपहर्ता साम्प्रतमस्ति कोऽपि क्षितितलेऽस्मिन्निति विचार्य कथयत ।
ततः सर्वेऽपि विचारयितुं लग्नाः । तन्मध्यादेको यवीयान् महाविद्वान् सम्यगालोच्य राजानमेवमवोचत - हे राजन् ! प्रतिष्ठानपुरे कुम्भकारगृहे तादृशः पुत्रो जातोऽस्ति । स उज्जयिनीराज्यं करिष्यति । एतदाकर्ण्य राज्ञो महती चिन्ता समुत्पन्ना ।
तत एकदा विक्रमो नराधीशोऽसंख्यचतुरङ्गसैन्यं लात्वा दाक्षिणात्यप्रतिष्ठानपुरमागत्य तस्य कुम्भकारस्य गृहमवरोधयामास । सकुटुम्बं कुम्भकारं निहन्तुं तेन नानोपायाः कारिताः । तत्रावसरे निजपुत्रसम्प्राप्तमहानिष्टभीत्या सा विधवा तत्क्षणमेव तं नागराजं सस्मार। सोऽपि तत्कालमेव तदग्रे प्रकटीभूय निजसूनवे
32