SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली तेऽपि तत्कालमेव तत्र गत्वा तं साधुं पादयोधृत्वा निष्क्रष्टुं लग्राः । तत्रावसरे तदीयौ चरणौ भृशं ववृधाते । ततस्ते तौ हित्वा तद्धस्तौ गृहीत्वा तमुत्थापयितुमैच्छन् । तद्विलोक्य स साधुः करावपि नितरामवर्धयत् । ततस्ते तं ताडयितुं लग्राः | संताडिते च तत्र मुनौ तत्रान्तःपुरे स्थिता राजदारा एव ताडिता जाताः, ततस्तेतञ्चमत्कारिणं ज्ञात्वा सर्वमादितो वृत्तं भूपं कथयामासुः । अथ राजा स्वयमेव तत्रागत्य तमवोचत - भो मुनीश्वर ! त्वमित्थं देवदेवं महादेवं कथमवहेलयसि ? तेनोक्तम्- मया नैवाऽवज्ञायते । राजा वक्ति- एष तु मम देवः । मुनिर्वक्ति- नहि-नहि एतन्मध्येऽस्मदीयो देवो वर्तते । पुनराचष्टे नृपः - यद्येतन्मध्ये भवदीयो देवोऽस्ति तर्हि नो दर्शय । तच्छ्रुत्वा तेनोक्तम्-हे भूपेन्द्र ! पश्य, अत्रावसरे स 'कल्याणमन्दिरस्तुतिश्लोकेन निजदेवं सम्बोध्य यदाऽऽह्वयत तदैव तल्लिङ्गं मित्त्वा तदाचार्यकरजलसेकप्रभावतोऽवन्तीपार्थनाथो भगवानाविरासीत् । तदैतच्चमत्कारमालोकयन्, स राजा तं सिद्धमाचार्य ननाम । पुना राजा शुद्धदेवे गुरौ च सञ्जातश्रद्धः सम्यक्त्वसहितं श्रावकीयं द्वादशव्रतमङ्गीचक्रे | ततोऽसौ राजा जैनधर्मप्रभावेण सातनिजाऽमितपौरुषेण सुवर्णपुरुषसाहाय्येन च सकलवैख्रिजमवधीत् । ततोऽस्य राज्यं निःसपत्नमासीत् । पुनरसौ विक्रमी विक्रमार्को निजनामा जगति संवत्सरं प्रावर्तयत् । किञ्च तस्य विक्रमभूपेन्द्रस्य शासनमखण्डं जगतः खण्डत्रये मान्यमासीत् । मोक्षङ्गतस्य भगवतो महावीरस्य सप्तत्यधिकचतुःशते वर्षेऽतीते विक्रमार्कीयः संवत्सरः प्रावर्तत । 28
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy