SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली अतोऽहं त्वयि सन्तुष्टोऽस्मि । वरं ब्रूहि, इति तदीयं वच आकर्ण्य विक्रमोऽपि तमेवमगदत् । हे देव ! यदि तुष्यसि वरञ्च दित्ससि, तर्हि सर्वास्ववस्थासु त्वं मामव्या इति प्रार्थनैका | तथा स्मृतोऽस्मृतो वाऽवसरे मदन्तिकमागच्छ, इति द्वितीया प्रार्थना | इतोऽन्यत्किमपि न प्रार्थयामि । वेतालोऽपि तत्सर्वमङ्गीकृत्य निजधाम गतः । विक्रमोऽपिततःप्रभृति निर्भीकः प्रजाइव प्रजांपालयन्सुखमनुबभूव | स विक्रमः तत्रोज्जयिन्यामेव काप्येका सिद्धविद्या तैलिककन्या त्रिभुवनजयिनी रूपलावण्यवती तारुण्यलीलावती देवदमन्याख्या समासीत, तच्छकाशात् पञ्चदण्डात्मकंछत्रं साधयामास । विद्यया च तां विजित्य स्वप्रेयसीञ्चकार । तथा सौधर्मेन्द्रोऽपितदीयगुणगणंसमाकर्ण्य विक्रमार्कभूपतेर्वशंवदः समासीत्। विक्रमोपरि महती प्रीतिरासीदिन्द्रस्यापि । किञ्च विक्रमी विक्रमः प्रीतिदत्ते देवेन्द्रेण महासिंहासने समुपविष्ट: पञ्चदण्डात्मकच्छत्रेण शोभमानो नितराम-दीप्यत । अथैकदा तत्र नगरे श्रीमहाकालेश्वरमन्दिरे राज्ञः प्रतिबोधार्थं 'कुमुदचन्द्राभिधो जैनाचार्य आगात् । स च महाकालाऽभिमुखं पदं कृत्वा तत्रैव सुप्तः । अथ कियता कालेन समागतोऽर्चकस्तं साधु सुप्तमालोक्य बभाषे- अरे ! कस्त्वम् एवं किं स्वपिषि ? श्रीमहादेवावहेलाकरणेन कथं न बिभेषि ? इत्थमर्चकेन बहुधा निवारितोऽपि स यदा न न्यवर्तत, तदा स देवलस्तत्क्षणमेवैतत्स्वरूपं सर्वं राज्ञे निवेदयामास । तदाकर्ण्य राजापि क्रुद्धः सुभटानैवमादिशत् - भोः सुमटा! यूयं तत्र यात, तं पाखण्डिनं निहत्य सत्वरं बहिर्निष्काशयत। 1. श्री सिद्धसेन दिनाकरसूरिः
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy