________________
सूक्तमुक्तावली
इत्थमकण्टकं राज्यं कुर्वन्, अर्हद्भक्तिं विदधत् स्वायुः शतं सम्पूर्णीकृत्य स विक्रमी विक्रमो राजा देवलोकङ्गतवान् । इतोऽधिकं तच्चरित्रं विक्रमचरित्रादितो बोध्यं जिज्ञासावद्भिः |
४- अथ धर्मतत्त्वोपरि शालिवाहननृपस्य कथानकम्
तथाहि-इहैव दक्षिणमहाराष्ट्रदेशे प्रतिष्ठानाऽभिधानं नगरं वर्तते । तत्र च शालिवाहनाख्यो राजा विलसति । स चैकदा निजनगरसीम्नि वहन्त्याः क्षिप्रानद्यास्तटे विहरन नदीशोभाञ्च पश्यन नितरां जहर्ष । परं तत्रावसरे जलतरङ्गसंयोगादेको महाकायो मीनो नदीतीरमागत्य प्रकटं जहास । तदालोक्य स राजा मनसि क्षोभं कृतवान् । क्षोभस्य तत्रेदं कारणम् - यल्लोकेऽस्मिन् मत्स्यो नैव हसति । परमसौ जहास । तेन कोऽप्युत्पातोऽवश्यं भावीति निश्चित्य T विमना इव राजा निजावासमापन्नः ।
ततः सर्वान् दैवज्ञान् नैमित्तिकांश्च समाकार्य तत्कारणं राजा तानपृच्छत् । परं मनःसन्तोषकरमुत्तरं कोऽपि नाऽवक् । ततो विषण्णो राजा ज्ञानसागरनामानं जैनमुनिमपृच्छत् - भो मुने ! मामवलोक्य स मीनः कथं जहास ? इत्थं राज्ञा पृष्टो मुनिरवधिज्ञानयोगेन जन्मान्तरीयं तत्सर्वमालोक्य राजानमेवमवोचत् - हे राजेन्द्र ! सावधानमनसा तत्कारणमाकर्ण्यताम् ।
इहैव नगरे पूर्वजन्मनि भवान् निरपत्यः काष्ठभारविक्रेता महारङ्क आसीत् । काष्ठभारं वनादानीय विक्रीय च नगरे निजात्मान
29