SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली परन्तु युवां वदतं, किमर्थं कुत्र युवयोः पुत्रं स नयतीति । युवां चिन्तां त्यजतं । यदि दुष्करमपि भविष्यति तथापि युष्मदात्मजं मोचयिष्यामि, तत्स्थाने गमिष्यामि चेति श्रुत्वा ताववदताम् । हे परोपकारिशिरोमणे ! अत्र नगरे राजा भर्तृहरिः सञ्जातवैराग्यवशात् प्रव्रजितः । ततःप्रभृति कोऽप्यत्र राजा नास्ति । किञ्चास्वामिकेऽस्मिन्नगरे कोऽप्यग्निवेतालाभिधो वीरो महादुष्टो नागरिकाअनानसौः क्लेशैः समुद्वेजयितुंलग्नः । ततश्च सर्वे राजकीया जना उद्विग्नाः सन्तः प्रत्यहमेकं नरं तस्मै भक्षणार्थं दातुं निश्चिक्युः । ततःप्रभृति प्रतिदिनमेकस्माद् गृहादेको नरो याति तस्य महाराक्षसस्य भक्ष्याय । अद्यावयोरेव पुत्रं तदर्थमसौ राजपुरुषो नीत्वा याति । अथैतद्वार्ता श्रुत्वा तं राजकीयं पुरुषमेवमुवाच - भोः पुरुष ! एनं मुञ्च, एतत्स्थानेऽहमेव गच्छामि। ततस्तं कुम्भकारपुत्रं मोचयित्वा स्वयं तेन पुरुषेण सह समन्त्रिको विक्रमो राजसदनमागत्य राजसिंहासनोपरि समुपविष्टो भृशमदीप्यत । तत्रावसरे सकला अमात्यप्रधानादयस्तमुपलक्ष्य प्रमुदितमनसः प्रणेमुः । अथ विक्रमेण चिन्तितम्- मया कुम्भकारपुत्रो मोचितः । परं निशितद्देवता प्रीत्यर्थं कोऽप्युपायस्तु नाऽवधारितः । अथैवं निजमनसि चिन्तयता राज्ञा सर्वे कान्दविकाः समाहूताः । ततस्तानेवमादिशत् - भोः कान्दविकाः ! यूयं नानाजातीयमोदकराशिं कुरुत । नानाविधान यथेष्टानपूपान् घृतपूरकादीनि च । ततस्तत्तद्राशीकृतानि भोज्यानि मोदकादीनि, नानाविधव्यञ्जनानि, भक्तानि, सुस्वादकराणि तत्र स्थाने स्थापयामास । स्थाने 24 -
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy