________________
सूक्तमुक्तावली पपात | पुनस्तच्छवमानीय तीरे च धृत्वा तदङ्गतः सकलधनादिकं गृहीत्वा, मुक्तः कलेवरस्तस्यै शृगालिकायै भक्षणाय विक्रमार्केण । अथ पुनस्तत्रैवाक्षदेवनस्थाने प्रच्छन्नतया गत्वा तस्थौ । श्रेष्ठ्यपि मित्रेण साकमक्षक्रीडनं कुर्वन्नासीत् ।
__सैव क्रोष्ट्री पुनरूचे । भूयोऽपि तद्रावफलं श्रेष्ठिनं सोऽपृच्छत्। अथ श्रेष्ठिनोक्तम्- हे सखे ! इयमधुना यद् ब्रूते तदाकर्ण्यताम्- येन साहसिकशिरोमणिना पुंसा ममाऽर्पितं भक्षणम्, स उज्जयिन्या राजा भविष्यति । विक्रमः सर्वमाकर्णितवान् ।। ___अत्रान्तरे पुनरुक्तं तयाक्रोष्ट्या, तेन मित्रेण तथैव तत्फलमपि श्रेष्ठी पृष्टः । तत्रावसरे प्रच्छन्नं स्थितं विक्रमं स सार्थस्वामी ददर्श । तत्क्षणंस विक्रमो विस्मितो यावदितस्ततो वीक्षमाण आसीत्, तावत्तदग्रे गत्वा श्रेष्ठिनालिङ्गतः । व्यक्तीभूय स विक्रमः सर्वमादितः शिवाभाषितफलमाकर्ण्य तं श्रेष्ठिनमेवमुवाच- हे महाभाग! इतःप्रभृति त्वं मम मन्त्री जातोऽसि।
ततस्तेन मन्त्रिणा साकं विक्रमो बहुविधशुभशकुनैः प्रेरितो हृष्टमना नगरम्प्राविशत् । तदैव कोऽपि राजपुरुषः कस्यचिदेकस्य कुम्भकारस्य गृहे समागत्य तव गृहादेवाद्य केनापि पुरुषेण तत्र भक्ष्याय गन्तव्यमिति वारकपत्रमर्पयित्वा तदीयाऽऽत्मजं गृहीत्वा चचाल । ततस्तदीयौ पितरौ भृशमाक्रोशञ्चक्रतुः । विक्रमस्तदालोक्य तावुवाच- अरे ! कथमेवं रुदिथः ? ताववक्तां- आवयोरतिवृद्धयोः पुत्रमसौ राजकीयजनो गृहीत्वा याति । अत आवामेवमाक्रन्दावः | पुनरुक्तं विक्रमेण मा रोदिष्टम् । अहमेव त्वत्पुत्रस्थाने गमिष्यामि ।
23