SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली तामेवमपृच्छत् - भो राज्ञि ! मद्दत्तमजरामरकारि फलं त्वया भक्षितं किम् ? तयोक्तं स्वामिन्! तस्मिन्नेव दिने मया भक्षितम् । तस्मिन्नवसरे भर्तृहरिरेवं निजमनसि निश्चिकाय, यत्खल्वियं राज्ञी पापीयसी जारानुरागिणी वर्तते । अतोऽस्मिन्नसारे संसारे धीराणां का प्रीतिः । अहो कामपारतन्त्र्यमुपागतो लोको ध्रुवमकार्यमपि विधत्ते। इत्थं स नरपतिर्विषयविमुखो भूत्वाऽमुं संसारमसारं जानन् दीक्षामेव निःश्रेयसे स्वीचकार । इतश्च नानादेशानटन् बहुशः कौतुकानि विलोकमानः स विक्रमस्तत्रोज्जयिन्यां क्षिप्रातीरे समागत्य तस्थौ । तदा तत्रैकलक्षः पोठीनः सहावतीर्ण आसीत । विक्रमोऽपि तन्मध्ये निशि चौर्याय प्रविवेश । तत्स्वामी च तस्मिन् समये केनापि मित्रेण सह सारिकापाशकक्रीडनं विदधदासीत् । क्षिप्रायाः पूरोऽपि तत्र समये महानासीत् । तत्रावसरे काचिदेका शृगाली जगाद । तच्छ्रुत्वा मित्रमपृच्छत् - हे श्रेष्ठिन् ! इयं शृगाली किं वक्ति ? पोठस्वामी न्यगदत्हे मित्र ! शृणु, सम्प्रति क्षिप्राप्रवाह - मध्ये स्त्रीशवो याति तदङ्गे महार्हाणि विविधानि भूषणानि सन्ति । तथा धनमपि प्रचुरं तदङ्गे संबद्धमस्ति । यदीदानीं कश्चन महाशूरो वीरो जलाच्छवमानीय भूषणानि सर्वाणि धनानि च गृहीत्वा तत्कलेवरं भोक्तुं मे समर्पयेत् तर्हि वरम्, इति वदति क्रोष्ट्री । अथ तत्पोठमध्ये गुप्तः सर्वमाकर्णयन् विक्रमस्तत्क्षणमेव क्षिप्रान्तः 1. भाषा शब्दः । गठरी वहना करनेवाला । 22
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy