________________
सूक्तमुक्तावली
नागमिष्यति । सापि तदाजरामरकारि फलम्पाण्डवनाम्ने निजजारपुरुषाय प्रेम्णा दत्तवती । सोऽपि गणिकासमासक्तः शृङ्गारमञ्जरीवेश्यायै ददाति स्म । तयापि चिन्तितम् - एतत्फलं राजा यदि भोक्ष्यति तर्हि वरं स्यादिति ध्यात्वा तदादाय स्वर्णस्थालके च निधाय निजपरिवारयुता राजसभामागत्य तस्मै भूजानये समर्पयामास ।
I
अथ तत्फलमालोक्य राज्ञो हर्षस्थाने महान् विस्मयो जातः । अहो !!! मयैतत् स्वराज्ञ्यै दत्तम् । तर्हि कथमनया लब्धम्, एवमनेकधा निजमनसि संशयमधिगच्छन् राजा तामेवम्पप्रच्छ । अयि गणिके ! त्वयैतत्फलं कुतो लब्धं, सत्यं ब्रूहि । तत्रावसरे सा गणिका तद्विषये किमप्यलीकमेव वक्तुं लग्ना, परं राज्ञा तन्न स्वीकृतम् । पुनः पुनः क्षितिभुजा पुष्टाऽपि यदा सा वेश्या सत्यवृत्तान्तं नाऽवोचत तदा प्रकुपितो राजा तामेवमवदत् - अरे रण्डे ! सत्यं वद कुतः प्राप्तमेतदिति, नो चेदधुनैव शूलिकायां त्वामारोपयिष्यामि समादिदेश च मन्त्रिणमेवम्भोः प्रधान ! एनामलीकवादिनीं बद्ध्वा सन्ताडय ।
ततस्तां बद्ध्वा ताडयितुं लग्नः कोऽपि प्रतिहारी, ततोऽवादीत् सा-हे स्वामिन् ! मा ताडय - ताडय सत्यं कथयामि यथा प्राप्तमिति । तवैव सेवकेन पाण्डवाभिधेन मे दत्तमेतत् । मया तु विशिष्टम्फलमेतदिति ज्ञात्वा भवते समर्पितम् ।
अथ पाण्डवमाहूय राजा तत्स्वरूपम्पप्रच्छ । सोऽपि बहुधा ताडितोऽपि बिभीषितोऽपि सत्यं नाख्यत् । परं विचक्षणो भर्तृहरिस्स्वमत्यैव तत्स्वरूपमवधार्य तत्फलञ्च वस्त्राच्छन्नमादाय राज्ञ्याः पार्श्वमागतः ।
21