SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली स्थाने दीपावलीश्च कारितवान् । तत्र स्थाने तदर्थं मुखवासकराणि ताम्बूलादीनि लवङ्गैलाकस्तूरिकाकर्पूरादिविमिश्रितानि पुञ्जीकृतानि, तत्स्थाने स्थापितवान् । तथा नानाविधसुरभिघ्राणतर्पणविधायकद्रव्यराशिभिः परिपूरितम् । तथा नानाजातीयमहामोदकरधूपराशीञ्च तत्र कारितवान् । इत्थमनेकविधखादिमलेह्यपेय-पदार्थः निभृतं विधाय निर्गते च लोके निर्जने तद्राजमन्दिरे रात्रौ खड्गपाणिः स विक्रमो राजा समागत्य तस्मिन् राजपल्यङ्के पुरुषाकृतिककाष्ठं स्थापितवान् । पुनस्तं वसनेन समावृणोच्च । स्वयञ्च समुद्यतासिः क्वचिद्रहः स्थितो जातः । ___ ततोऽर्धरात्रे मुखेन फुत्कारं विदधत् करेण च डमरुं वादयन् पद्भ्यां घुघुरारावं सञ्जनयन् रक्तायतलोचनः पृथ्वी चरणाघातेन कम्पयन् वृक्षान्शातयन् सोऽग्निवेतालस्तत्राऽऽगात् । पुनस्तत्क्षणमेव तत्र पल्यकोपरि सुप्तं नराकारमसिना द्विधा कृतवान् । अथ भग्नङ्काष्ठमालोक्य नरमपश्यन्नभितो वीक्षमाणो यावदासीत् तावत्तत्र तस्याऽभिमुखीभूतो विक्रमस्तं वीरम्प्राणमत्। ततोवेतालस्तमेवमपृच्छत्भो ! एतत्सर्वं किमर्थमत्र सञ्चितं दृश्यते, राज्ञोक्तम्- भगवन् ! त्वदर्थमेवास्ति । एतानि सर्वाणि गृहाण, सुखेन भुझ्व, नरभक्षणं जहि । अथ तत्सर्वं मुक्त्वा सन्तुष्टो वेतालो भूपालमेवमुवाच - हे वीरविक्रम! मया किलैतद्राज्यं तुभ्यम्प्रदत्तम् । परं नित्यमित्थमेतावान् बलिः त्वया प्रदेयः । इत्युदीर्य स वेतालोऽलक्ष्यो जातः । ततो निःशको राजा तस्यामेव शय्यायां सुष्वाप । 25
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy