SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली चेष्टितङ्कथयेत्तर्हि महदपयशो मे स्यादिति विचिन्तयन्ती सा दुर्धी राज्ञी स्त्रीचरित्रं नाटयन्ती राजान्तिकमागत्य केशपाशमुन्मुच्याऽभितो विलोकयन्ती नृपोपरि पतन्ती राज्ञो नलिकामुच्चैः परिपीड्य राजा ममारेति तत्क्षणमाक्रोष्टुमारेभे । तदाक्रन्दनमाकर्ण्य सर्वेऽपि लोकास्तत्रागता । नृपं मृतम्पश्यन्तो नितरां शुशुचुः पुनस्ते तदीयोत्तरक्रियां कर्तुम्प्रावर्तिषुः । राजा मृत्वा समाधिमरणमाहात्म्येन प्रथमे देवलोके सूर्याभविमाने सूर्याभनामा देवोऽभूत् । तत्र च चतुः पल्योपममायुर्भुक्त्वा ततश्च्युत्वा महाविदेहे क्षेत्रे मानुष्यमासाद्य सद्गुरुसंयोगे चारित्र्यम्परिपाल्य कर्मसन्ततिं क्षपयित्वा मोक्षं प्राप्स्यति । अक्षयं सुखं भोक्ष्यति । अतो हे भव्याः ! परमसुखार्थिनः भवन्तोऽपि यदि मोक्षसाम्राज्यमिच्छेयुस्तर्हि प्रदेशिराजवत् सद्गुरुसमायोगं विधाय धर्मे मतिदाढ्यं कुर्वन्तु । | ३ - अथ धर्म - तत्त्वविषये जलनिधि जलवेला चंद्रथी जेम वाधे, सकल विभव लीला धर्मथी तेम साधे । मनुअ जनम केरो सार ते धर्म जाणी, भजि भजि भवि भावे धर्म ते सौख्य-खाणी ॥७॥ यथा चन्द्रमसा जलनिधिरेधते तथा धर्मैराराधितैः संसारे लौकिक्यः सम्पदो नितरामभितो वदर्धन्ते । अतः हे भव्याः ! इहलोके मनुष्ययोनिमासाद्य सर्वसारं धर्मतत्त्वं सकलसुखनिधानं सादरमा 18
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy