SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली राध्यत ||७|| इह धरम पसाये विक्रमे सत्य साध्यो, इह धरम पसाये शालिनो साक वाध्यो । जस नर गज बाजी मृत्तिकाना जिकेई, रण समय थया ते जीव सांचा तिकेई ॥८॥ किञ्च हे लोकाः ! पश्यत दुष्करमपि समीहितं धर्मप्रभावतो जायते । तथाहि - विक्रमेण वीरेण धर्मप्रसादादेव सार्वभौमत्वं प्राप्तम् । वीरसंवत्सरवत् निजनाम्ना संवत्सरमस्थापयत । अपि च धर्माराधनेनैव शालिवाहनो धराधीशो निजनाम्ना शकाब्दञ्जगति व्यवहारितवान । महत्तरमकण्टकं राज्यमलभत । अन्येऽपि बहुशो वीराः सम्यग् धर्ममाराधयन्तो महागजतुरङ्गमादि- दिव्यानि वाहनानि प्रापुः । तथा रणे विजयिनो बभूवुः ||८|| ३ - अथ धर्मतत्वोपरि विक्रमार्कस्य कथानकं दर्श्यते ' इह हि मालवदेशे उज्जयिनी पुरी वर्तते, तत्र गन्धर्वसेननामा राजा राज्यङ्करोति । तस्य भूपते रूपलावण्यादिगुणै रम्भोपमा मुक्तावलीनाम्ना प्रेयसी पट्टराज्ञी विद्यते । तयोश्च भर्तृहरि - विक्रमाभिधानौ पुत्रौ बभूवतुः । तावुभौ भ्रातरौ पित्रोः प्रमोदकरौ द्वासप्ततिकलानिधानौ सकलविद्याविशारदौ बलाढ्यौ तेजस्विनौ प्रतापवन्तौ नयादिसकलगुणसम्पन्नौ यौवनमापतुः । तदा वार्द्धक्यमुपागतो राजा ज्यायांसं भर्तृहरिनामानं पुत्रं प्रधानादिसकलजनानुमत्या राजानं कृतवान् । 19 ॐ Co
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy