________________
सूक्तमुक्तावली
ततः प्रभृति स नृपो विषयवैमुख्यं दधानः सदा पौषधे, प्रतिक्रमणे द्विकालिके, सामायिकादिव्रतप्रत्याख्याने च समासक्तोऽभवत् । मुनिरपि ततोऽन्यत्र विजहार । तदनुस राजा विषयवासनापरित्यक्तः संसारे लौकिकं कृत्यं कुर्वाणः समवर्तत । राज्यं कुर्वतोऽपि तस्य भूपतेर्मनः सदा धर्मकृत्य एवाऽनुरागि बभूव । विषये तु विरक्तमेवाऽऽसीत् । किमधिकेन, तस्य राज्ञो याऽतिप्रेयसी श्रेयसी कान्ता सूरिकान्ताभिधानाऽऽसीत् तामपि राजा नितरां विसस्मार ।
अथ राजानं विषयविमुखं शान्तमनसं तपोरागिणं विचिन्तयन्ती सूरिकान्ता वर्धिष्णुकामवासना निजविषयसुखपूरणाय, कमपि तरुणम्पुमांसमन्यं स्वानुरागिणं सेवितुमैच्छत् । ततः प्रभृति सा सूरिकान्ता निजभर्तरि महाद्रोहं विदधती मनस्येवं दध्यौ - एष नितरां विषयवैमुख्यमुपगतः । मम तु सदैव घृतेन वह्निरिव मदनो भृशं वर्धिष्णुरेव दृश्यते । सति तस्मिन् भर्तरि पुरुषान्तरेणाऽपि मम स्वैरविहारो न स्यादित्यादिचिन्ताकुला यावदासीत् सा, तावदेकदा महीभुजस्तस्य सञ्जातषष्ठोपवासस्य पारणकमागात्, अर्थात् - दिनद्वयमुपोषितस्य महीजानेः पारणादिवसो हि समागतः ।
तत्र दिने पारणायां विषमिश्रमाहारं राजानं भोजयामास, स राजा तस्या महादुष्टायास्तादृशं दुश्चेष्टितं जानन्नपि स्वस्य तथाभवितव्यं मत्वा किञ्चदप्यनूचानस्तद्दत्तमाहारं सुखेन भुक्त्वा सर्वाङ्गगरलव्याप्त्या व्याकुलतामधिगच्छन्नचेष्टो जातः । तत्राऽवसरे कुशलं प्रष्टुं सर्वे सामन्ताऽमात्यादयो राजकीयास्तत्राजग्मुः । तस्मिन्नवसरे सूरिकान्तया दुष्टधिया चिन्तितमेवम् - अहो यद्यसौ नरनाथः कमपि मम
17